पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/११०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६४
यादवाभ्युदये


नूनम् । सूचनं अभिव्यञ्जनम् । आचरन्ती सती । तत्तदिव दृश्यत इति तत्तादृश तत्तद्भगवचरित्रसदृशम् । नाटितक अभिनयं वसुन्धरोपभोगरूपम् । ततान । अत्र गर्भलालसप्रयुक्तमृद्भक्षण भगवद्भक्तार्थसूचकाभिनयत्वेन उत्प्रेक्ष्यते । यद्यपि विश्वभोक्तेत्यत्र 'तृजकाभ्यां कर्तरि' इति षष्ठीसमासनिषेधोऽस्ति, तथापि ‘जनिकर्तुः पृकृतिः' 'तत्प्रयोजको हेतुश्च' इति सूत्रनिदेशदर्शनेन याजकादेराकृतिगणत्वादेतादृशम्समास इति केचिदाहुः । 'कृद्योगलक्षणषष्ठीसमासविषयो निषेध इति शेषषष्टीसमासोपगमे न दोषः।' इति हग्दत्तः। षष्ठीसमासप्रतिषेधकाण्डारम्भ स्वरविषय इति मुनीतिकीर्तिनामा वृत्तिकारः । तृजकाभ्यां कर्तरि' इति सूत्रे तृचः सानुबन्धस्य ग्रहणं तृन्व्यावर्तनाथमित्यत एव ज्ञापकात् तृन्योगे षष्ठीसमासो भवतीत्येतादृशस्तृन्नन्तसमास इति न्यासकारः । द्वितीयेति योगविभागात् तृन्नन्तेन द्वितीयासमाम इत्यपि केचित्। सर्वथापि प्रयोगप्राचुर्यात् समासः साधुः । तत्तादृशामिनि वीपिततच्छब्दोपपदादृशेः कञ्प्रत्ययः । तमिवैन पश्यन्ति जना. सोऽय स इव दृश्यमान. तमिवात्मान पश्यतीति तादृगिति भाष्ये व्युत्पत्तिप्रदर्शनादुक्तार्थसाधुता । अनेकावतारकृतानि वसुधरोपभोगरूपाणि भगवचरितानि वीप्सिततत्पदेन गृह्यन्ते। भोजराजस्त्वत्र तत्पदवी'सामनङ्गीकृत्य तुल्यशब्दसमानार्थतत्तुल्यशब्दवत् तादृशशब्दसमानार्थस्तत्तादृशशब्दोऽप्यस्त्यखण्ड इत्याह ॥ ११ ॥ समाधिसुक्षेत्रकृषीवलानां सन्तोषसस्योदयमेघकान्त्या। चकास तस्याः स्तनचूचुकाभा गर्भत्विषा गाढमिवानुलिप्ता ॥ १२ ॥ . समाधीति । तस्याः । स्तनचूचुकयोः आभा। समाधिरेव सुक्षेत्रमुत्तम