पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/१११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६५
द्वितीयः सर्गः।

केदारः । तत्र कृषीवलानां कर्षकाणाम् । सन्तोष एव सस्य तस्योदये मेघकान्त्या योगिनामानन्दोद्गमकारणभूतया। गर्भस्य भगवतः त्विषा। गाढ भृशम् । अनुलिप्तेव । चकास शुशुभ इत्युत्प्रेक्षा। पूर्वार्धे परंपरितरूपकं चति तयोः संसृष्टिः। धातूनामनेकार्थत्वात् कस गताविति धातुश्शोभायामाप वर्तते। चूचुकशब्दमात्रस्य स्तनाग्रवाचिन्धेऽपि स्तनचूचुकशब्दप्रयोग कारकलभगजघटादिप्रयोग इव कविनिरन्तररूढ्या समाधेयः ॥ १२॥ कस्तूरिकाकाम्यरुचिस्तदीया रम्या बभौ चूंचुकरनकान्तिः। तद्गर्भसंदर्शनलोलुपाना मन्तदृशामञ्जनकल्पनेव ॥ १३ ॥ कस्तूरिकेति । कस्तूरिकया काम्या अभिलषणीया तदतिशायिनी रुचिः प्रभा यस्यास्सा । रम्या । तस्या इय तदीया । चूचुकरत्नयोः रत्नतुल्ययोः चूचुकयोः कान्तिः शोभा । तस्या गर्भस्य भगवतः सन्दर्शने लोलुपानाम् । अन्तर्दृशां प्रत्यग्दृष्टीना योगिनाम् । अञ्जनसामर्थ्यात् अन्त:प्रवेशितदृशामित्यपि गम्यते । अञ्जनकल्पनेव दृशामन्तःप्रवेशनसमये स्तनलग्न अञ्जनरञ्जनमिव । बभावित्युत्प्रेक्षा ॥ १३ ॥ परावराणां प्रभवस्य पुंसः प्रकाशकत्वं प्रतिपत्स्यमानाम् । अभावयन् भावितचेतसस्तां विद्यानिधिं विश्वपितामहीं च ॥ १४ ॥ परावराणामिति । परावराणां उत्कृष्टापकृष्टरूपाणां पूर्वापररूपाणां