पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/१०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६३
द्वितीयः सर्गः।

रक्षाविधौ राक्षसदानवानां कारागृहे कंसनियोगभाजाम् । संपश्यमाना सकूदीक्षिता वा संक्षाभयामास मनांसि सैषा ॥ १० ॥ रक्षेति। सा प्रसिद्धा। एपा देवी । कारागृहे बन्धनालये । रक्षाविधौ देवकीवसुदेवयोनिरुद्धयोस्सरक्षणकृत्ये । कर्मानयोगभाजाम् । राक्षसानां दानवानां च । मनांसि (कर्माणि)। सपश्यमाना, सकृदीक्षिता वा, स्वय तान् पश्यन्ती सकृदपि तैदृष्टा वा। सक्षोभयामास रक्षोऽसुरविरोधिवैष्णवतेजोभरितत्वात् भयसरम्भक्षुभितान्यकरोदित्यर्थः। 'दृशेश्चेति वक्तव्यम् ।' इति सर्वस्य दृशेरकर्मकस्यात्मनेपदित्वा, सपश्यमानेति शानच् । अकर्मकत्वस्त्र कर्माविवक्षयोपपाद्यम् । यथाहुः । ‘धातोरान्तरे वृत्तेर्धात्वर्थेनोपसंग्रहात् । प्रसिद्धरविवक्षातः कर्मणोऽकर्मिका क्रिया।' इति। ताच्छील्ये चानश्प्रत्ययो वा । तस्य परस्मैपदित्वेऽपि सभवात् ॥ १० ॥ भुक्ता पुरा येन वसुन्धरा सा स विश्वभोक्ता मम गर्भभूतः । इति ध्रुवं सूचनमाचरन्ती तत्तादृशं नाटितकं ततान ॥ ११ ॥ भुक्तेति । सा देवकी । पुरा पूर्वम् । येन । वसुधरा भूमिः । भुक्ता आदिवराहादिरूपेण देवतारूपा वा रघुनाथादिरूपेण गोलकरूपा वा उपभुक्ता । सः । विश्वभोक्ता सर्वस्यापि हव्यकव्यादेः भोक्ता भगवान् । मम । गर्भभूतः गर्भ प्राप्तः । भूधातुरिह प्राप्त्यर्थः । इति । ध्रुव