पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/१०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६२
यादवाभ्युदये


तस्यास्मुधोल्लासजुषः कटाक्षाः संक्षुब्धदुग्धाम्बुधिसौम्यभासः।। जगत्रयीसौधविलेपनाही वितेनिरे वर्णसुधामपूर्वाम् ।। ९॥ , तस्या इति । सङ्गतः क्षुब्धो मन्थाचलो यस्मिन् स सक्षुब्धः । 'प्रादिभ्यो धातुजस्य' इत्यादिना यहुव्रीहिः । 'क्षुब्धस्वान्तध्वान्त' इत्यादिना निपातनान्मन्थवाची क्षुब्धशब्दः । सक्षुब्धदुग्धोदधिरिव सौम्या मनोज्ञा भाः यस्याः मन्थाद्रिक्षोभेण परावर्तनसमये धावल्याधिक्य दृश्यत इति, कटाक्षास्सुधासाम्येन वर्ण्यन्त इति च मन्दरक्षुभितदुग्धोदधिसाम्योक्तिः । ‘मौम्यो विप्रे सोमजेऽब्जे सुन्दरे सोमदैवते ।' इति यादवः । तस्याः देवक्याः । सुधोल्लासजुषः अमृतविभ्रमजुषः । कटाक्षाः । जगत्रय्या एव सौधस्य विलेपनमर्हतीतिविलेपनाही ताम् । अपूर्वा अप्रसिद्धां विलक्षणाम् । वर्णसुधां धवलवर्णमेव सुधां लेपनद्रव्यविशेषम् । वितेनिरे । 'लेपभेदेऽमृते सुधा' इति यादवः । 'अर्हः' इति सूत्रेण कर्मोपपदादर्हतेरचप्रत्यये विलंपनाहंशब्दः । कविसमये वीक्षणानि प्रकृत्यापि धवलानि वर्ण्यन्ते । यथा । ' तामेव धवलेक्षणामारब्धरणरणकेन चेतसा चिन्तयतस्तस्य सा रात्रिर्जगाम ।' इति । विशेषतश्च गर्भसमय इति सुधोल्लासजुष इत्युक्तम् । अत्र संक्षुब्धेत्यादावुपमा । सुधोल्लासजुष इत्यत्रान्योल्लासस्यान्यत्र सम्बन्धायोगात् तत्सदृशोल्लासा गम्यत इति असंभवद्वस्तुसम्बन्धनिबन्धना निदर्शना । वर्णसुधामित्यत्र लेपनानुगुण्याद्रपकं चेति सङ्करः ॥ ९ ॥