पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/१०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
द्वितीयः सर्गः।

द्रवन्त्येभ्य इति द्रवाणि मधुनो द्रवाणि मधुद्रवाणि तथाभूनानि अगानि यस्यास्सा मधुद्रवाङ्गी तस्याः देवक्याः। प्रतीकेषु अवयवेषु। 'अङ्ग प्रतीकोऽवयवः' इत्यमरः । नंवन्दुनिष्यन्दनिभः नवेन इन्दोरमृतनिष्यन्देन सदृश इति अस्वपदविग्रहः, निभशब्दस्योत्तरपदत्वनियमात् । यथाह ‘स्युरुतरपदे त्वमी। निभसङ्काशनीकाशप्रतीकाशोपमादयः।' इति । वर्णः शुभ्रवर्णः । अन्तः गर्भे । स्थितेन । प्रथमेन पुमा आदिपुरुषेण । प्रवर्तितम् । अवदात रजस्तमोऽनभिभूततया शुद्धम्। सत्वमिव । चकाशे। 'अजामेका लोहितशुक्लकृष्णां' इति श्रुतौ सत्वगुणस्य शुभ्रत्व प्रसिद्धम् । ‘महान् प्रभुवै पुरुषस्सत्वस्यैष प्रवर्तकः ।' इति श्रुतौ च तत्प्रवर्तकत्व भगवतः प्रसिद्धमिति तथोत्प्रेक्षा। उपमायामेव लिङ्गभेददोषो नोत्प्रेक्षादिष्विति वामनालङ्कारे कथितम् । तदत्र नोपमानोपमेलिङ्गभेददोपप्रसङ्गः ॥ ७ ॥ करम्बिता किश्चिदिव प्रसप्त स्तेजोभिरन्तर्वसतस्त्रिधान्नः। मरीचिभिः स्वैरभवत्प्रजानां मङ्गल्यरत्नाकुरपालिकेव ॥ ८॥ करम्बितेति। अन्तर्वसतः त्रिधाम्नः। किञ्चिदिव प्रसृप्तैः ईषत् प्रसृतैः। तेजोभिः । करम्बिता सपृक्ता । देवकी। स्वैः। मरीचिभिः किरणैः। प्रजानां जनानाम् । मङ्गल्यरत्नाकुरपालिकेव । अभवत्। 'मयूरपिञ्छद्युतिभिः' इति श्लोके तत्कान्तीनां रत्नाङ्कुरपङ्क्तित्वेनोत्प्रेक्षा, इह तस्यास्तदाधारपात्रत्वेन उत्प्रेक्षेति भेदः । किञ्चिदिवेति इवशब्दो वाक्यालंकारार्थः । 'इववादको वाक्यपूरणार्थाः' इति शब्दप्रकाशिकावचनात् ॥ ८ ॥