पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/१०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६०
यादवाभ्युदये


कुराणां पालिका आवलिरिव । बभासे । अङ्कुरा अप्युपरिभागे श्यामला मूले शुभ्राश्च भवन्ति । तथा च देवकीप्रभामतीत्योपरि गच्छद्भिः कृष्णप्रभाकन्दलैः श्यामलिताना देवकीप्रभा, अत एक मङ्गल्या जगन्मङ्गलार्थानुष्ठिताङ्कुरार्पणकर्मकृतरत्नाकुरपङ्क्तिरिव बभास इत्यर्थः । उत्प्रेक्षालङ्कारः। अत्र कृष्णप्रभानिर्गमनोक्त्या परत्वज्ञापक दौहृदलक्षणमुक्तम् ॥ ५ ॥ काले बभासे वसुदेवपत्न्याः कर्पूरलिप्तेव कपोलशोभा । शशिप्रभा सप्तमगर्भकान्ति उच्युतावशिष्टेव शनैरुदीर्णा ॥६॥ काल इति । वसुदेवपत्न्याः । काले गर्भोपचयसमये । कर्पूरलिप्तेव स्थिता तथा शुभ्रा। कपोलशोभा की। शशिनः प्रभव प्रभा यस्याः सा शशिप्रभा, उपमानपूर्वपदो बहुव्रीहिरुत्तरपदलोपश्च । च्युतावशिष्टा गर्भसक्रमणनिष्क्रान्तकान्तेरवशिष्टा । शनैः कालक्रमेण । उदीर्णा उद्गता। सप्तमगर्भस्य बलदेवस्य कान्तिरिव बभासे । कृष्णस्य देवकीगर्भे प्रवेशात् पूर्व तत्र सप्तमस्मन्निविष्टो बलदेवो भगवन्मायया ततस्समाकृष्य रोहिणीगर्भे निवेशित इति पुराणकथा । स्वरूपोत्प्रेक्षालङ्कारः ॥ ६ ॥ नवेन्दुनिष्यन्दनिभश्वकाशे वर्णः प्रतीकेषु मधुद्रवायाः। अन्तः स्थितेन प्रथमेन पुंसा प्रवर्तितं सत्वमिवावदातम् ॥ ७॥ नवेति । मधुद्रवायाः नयनाप्यायन लावण्यं मधुत्वेनाध्यसितम् ,