पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/१०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
द्वितीयः सर्गः।


इदन्तु सर्ववेदप्रतिपाद्य मनुष्यत्वस्याप्यपनये समर्थमिति व्यतिरेकश्चेति सङ्करः ॥ ३ ॥ शतहदाबन्धुरया स्वकान्त्या संचारिजाम्बूनदबिम्बकल्पा। त्रय्यन्तसिद्धेन रसायनेन कालेन भेजे कलधौतलक्ष्मीम् ॥ ४ ॥ पूर्वश्लोकेन परत्वपिशुन दौहृदलक्षणमुक्तम् । लोकरीत्येदान मङ्गेषु धावल्यापत्तिं तावत् षड्भिः श्लोकैवर्णयति । शतहदेति। शतदाबन्धुरया विद्युन्मनोहरया। 'सुरूप हारि बन्धुरम्' इत्यमरशेषः । खकान्त्या निजशोभाविशेषेण। 'मन्मथा यायनकरी शोभा कान्तिर्निगद्यते।' इति यादवः । सञ्चारिजाम्बूनदबिम्बकल्पा सञ्चारवत्कनकप्रतिमासदृशी देवकी । त्रय्यन्तसिद्धेन उपनिषत्प्रसिद्धेन । रसायनेन कृष्णेन । कृष्णे रसायनत्वाध्यव'सायात् अतिशयोक्तिः । कालेन कालक्रमेण । कलधौतलक्ष्मी रजतशोभाम् । भेजे लेभे । रसायनास्वादोऽपि वर्णान्तर करोतांति भावः ॥ ४ ॥ मयूरपिञ्छद्युतिभिर्मयूखै स्तत्कान्तिरन्तर्वसतस्त्रिधाम्नः । श्यामा बहिर्मूलसिता बभासे मङ्गल्यरत्नाकुरपालिकेव ॥ ५॥ मयूरेति । अन्तः गर्भे वसतः । त्रिधाम्नः श्रीकृष्णस्य । मयूरपिञ्छ. द्युतिभिः बर्हिबहाभैः । मयूखैः । बहिः उपरिभागे । श्यामा। मूलसिता अधःप्रदेशे सिता। तत्कान्तिः तस्याः देवक्याः युतिः । मङ्गल्यरत्ना