पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
श्राद्धप्रकरणम् १०]
६९
मिताक्षरासहिता ।

वर्ज्यानाह--

रोगी हीनातिरिक्ताङ्गः काणः पौनर्भवस्तथा ।
अवकीर्ण कुण्डगोलौ कुनखी श्यावदन्तकः ।। २२२ ।।

रोगी महारोगोपसृष्टः । हीनमतिरिक्त वाङ्गं यस्यासौ हीनातिरिक्ताङ्गः । एके नाक्ष्णा यः पश्यति स काणः । एतस्मादेवान्धबधिरविद्धप्रजननखलंतिदुश्चर्मप्रभृ तयो निरस्ताः । पुनभूरुक्तलक्षणा तस्यां जातः पौनर्भवः । अवकीर्ण ब्रह्मचर्य एव स्खलितब्रह्मचर्यः । कुण्डगोलौ–‘परदारेषु जायेते द्वैौ सुतौ कुण्डगोलकौ । पत्यौ जीवति कुण्डः स्यान्मृते भर्तरि गोलकः ॥'मनुः (३॥१७४) इत्येवमुक्तलक्षणकैौ। कुनखी कुंत्सितनखः । श्यावदन्तकः स्वभावात्कृष्णदशनः । एते श्राद्धे निन्दिता इति वक्ष्यमाणेन संबन्धः ॥ २२२ ॥

भृतकाध्यापकः कृीबः कन्यादूष्यभिशस्तकः ।
मित्रधुक् पिशुनः सोमविक्रयी परिवेिन्दकः ।। २२३ ।।

वेतनग्रहणेन योऽध्यापयति स भृतकाध्यापकः । वेतनदानेन च योऽधीते सोऽपि । कृीबो नपुंसकः । असद्भिः सद्भिर्वा दोषैर्यः कन्यां दूषयति स कन्यादूषी । असता सत्ता वा ब्रह्महत्यादिनाभियुक्तोऽभिशस्तः । मित्रधुक् मित्रद्रोही । परदोष संकीर्तनशीलः पिशुनः । सोमविक्रयी यज्ञे सोमस्य विक्रेता । परिविन्दकः परि वेत्ता । ज्येष्ठऽकृतदारेऽकृतानिपरिग्रहे वा यः कनीयान्दारपरिग्रहमन्निपरिग्रहं वा कुर्यात्स परिवेत्ता । ज्येष्ठस्तु परिवित्तिः । यथाह मनुः (३॥१७१)—‘दारान्निहोत्र संयोगं यैः करोत्यग्रजे स्थिते । परिवेत्ता स विज्ञेयः परिवित्तिस्तु पूर्वजः ।' इति । एवं दातृयाजकावपि–“परिवित्तिः परिवेत्ता यया च परिविद्यते । सर्वे ते नरकं यान्ति दातृयाजकपञ्चमा ॥’ इति (३॥१३७२) मंनुवचनात् ॥ २२३ ॥

मंतापितृगुरुत्यागी कुण्डाशी वृषलात्मजः ।
परपूर्वापतिः स्तेनः कर्मदुष्टाश्च निन्दिताः ।। २२४ ।।

विना कारणेन मातापितृगुरून् यस्त्यजति स मातापितृगुरुत्यागी । एवं भार्यापु त्रत्याग्यपि—‘वृद्धौ च मातापितरौ साध्वी भार्या सुतः शिशुः । अप्यकार्यशतं कृत्वा भर्तव्या मनुरब्रवीत् ॥' मनुः (११॥१०) इति समाननिर्देशात् । कुण्डस्याद्रं योऽ श्रात्यसौ कुण्डाशी । एवं गोलकस्यापि-‘यस्तयोरन्नमश्राति स कुण्डाशी प्रकीर्तितः’ इति वचनात् । वृषलो निर्धर्मस्तत्सुतो वृषलात्मजः । परपूर्वा पुनर्भूः तस्याः पतिः । अदत्तादायी स्तेनः । कर्मदुष्टाः शास्त्रविरुद्धकारिणः । चकारात्कितवदेवलकप्रभृ तयः । एते श्राद्धे निन्दिताः प्रतिषिद्धाः । ‘अप्रया सर्वेषु वेदेष्वित्यादिना श्राद्ध-



१ वृद्धप्रजनन ख. २ खलतिर्निष्केशशिराः खल्वाट: ३ संकुचितनखः ख. ४ कुरुते योऽग्रजे स्थिते क. ५ इति समानदोषश्रवणात् ग. ६ मातृपितृ ग.