पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/१००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७०
[ आचाराध्यायः
याज्ञवल्क्यस्मृतिः

योग्यब्राह्मणप्रतिपादनेनैव तव्यतिरिक्तानामयोग्यत्वे सिद्धेऽपि पुनः केषांचिद्रोग्या दीनां प्रतिषेधवचनमुक्तलक्षणब्राह्मणासंभवे प्रतिषेधरहितानां प्राप्स्यर्थम् ॥ २२४ ॥
एवं श्राद्धकालान्ब्राह्मणांश्चोक्त्वाऽधुना पार्वणप्रयोगमाह--

निमन्त्रयेत पूर्वेद्युब्रह्मणानात्मवाञ्शुचिः ।
तैश्चापि संयतैर्भाव्यं मनोवाक्कायकर्मभिः ।। २२५ ।।

पूर्वोक्तान्ब्राह्मणान् श्राद्धे क्षणः क्रियतामिति पूर्वेद्युर्निमम्रयेत प्रार्थनया क्षणमभ्यु पगमयेत् । अपरेद्युर्वा । “पूर्वेद्युरपरेद्युर्वा श्राद्धकर्मण्युपस्थिते । निमत्रयेत व्यवरा न्सम्यग्विप्रान्यथोदितान् ॥’ इति (३॥१८७) मनुस्मरणात् । आत्मवान् शोकोन्मा दादिरहितः सन् दोषवान्न भवति । यद्वा आत्मवान्नियतेन्द्रियो भवेत् । शुचिः प्रय तश्च । तैरपि निमतैिब्रह्मणैर्मनोवाक्कायव्यापारेः संयतेर्नियतैर्भवितव्यम् ॥ २२५ ॥

अपराहे समभ्यच्ये स्वागतेनागतांस्तु तान् ।
पवित्रपाणिराचान्तानासनेषुपवेशयेत् ।। २२६ ।।

अपराहे उक्तलक्षणे समभ्यच्यै तान्निमश्रितान्ब्राह्मणानाहूय स्वागतवचनेन पूजयित्वा कृतपादधावनानाचान्ता न् क्रुसेटचासनेपु पवित्रपाणिः पवित्रपाणीनुपवे शयेत् । यद्यप्यत्र सामान्येनापराले इत्युक्तं तथापि कुतपे प्रारभ्य तदादि पञ्चसु मुहूर्तेषु परिसमापनं श्रेयस्करम् ।–“अह्नो मुहूर्ता विख्याता दश पञ्च च सर्वदा । तत्राष्टमो मुहूत यः स कालः कुतपः स्मृतः ॥ मध्याहे सर्वदा यस्मान्मन्दीभवति भास्करः । तस्मादनन्तफलदस्तत्रारम्भो विशिष्यते । ॥ ऊध्र्व मुहूर्तीत्कुतपाद्यन्मुहूर्त न्वतुष्टयम् । मुहूर्तपञ्चकं हेतत्स्वधाभवनमिष्यते ।।' इति वचनात् । त श्राद्धोपयोगि कुतपसंज्ञकमुक्तम् –“मध्याह्नः खङ्गपात्रं च तथा नेपालकम्बलः । रौप्यं दर्भौतिला गावो दौहित्रश्चाष्टमः स्मृत ॥ पापं कुत्सितमित्याहुस्तस्य संताप कारिणः । अष्टावेते यतस्तस्मात्कुतपा इति विश्रुताः ॥’ इति ॥ २२६ ॥

युग्मान्दैवे यथाशक्ति पित्र्येऽयुग्मांस्तथैव च ।
परिस्तृते शुचौ देशे दक्षिणाप्रवणे तथा ।। २२७ ।।

दैवे आभ्युदयिके श्राद्धे युग्मान्समान्ब्राह्मणानुपवेशयेत् । कथम् यथाशक्ति शक्ति मनतिक्रम्य । तत्र वैश्वदेवे द्वौ मात्रादीनां तिसृणामेकैकस्या द्वौ द्वौ तिसृणां वा द्वैो । एवं पित्रादीनामेकैकस्य द्वौ द्वौ त्रयाणां वा द्वेौ । एवं मातामहादीनां च वर्गत्रये वैश्वदेवं पृथकू तत्रं वा । पित्र्ये पार्वणश्राद्धे अयुग्मान्विषमानुपवेशयेदिति संब द्वक्ष्यते । एतच परिस्तृते सर्वतः प्रच्छादिते शुचौ गोमयादिनोपलिसे दक्षिणाप्रवणे दक्षिणतोऽवनते देशे कार्यम् ॥ २२७ ॥


१ अवसर उत्सवो वा क्षरिः ग. २ विज्ञेया क.