पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/१०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
श्राद्धप्रकरणम् १०]
७१
मिताक्षरासहिता ।

अयुग्मान्पिञ्य इति पार्वणश्राद्धाङ्गभूते वैश्वदेवेऽप्ययुग्मप्रसङ्गे इदमारभ्यते--

द्वौ दैवे प्राक् त्रयः पित्र्य उदगेकैकमेव वा ।
मातामहानामप्येवं तत्रं वा वैश्वदेविकम् ।। २२८ ।।

द्वै दैव इति । दैवे वैश्वदेवे द्वौ ब्राह्मणैौ प्राङ्मुखावुपवेश्यौ । पित्र्ये अयुग्मानि त्यविशेषप्रसङ्गे विशेष उच्यते—त्रयः पित्र्ये इति । पित्र्ये पित्रादिस्थाने त्रय उद् झुखा उपवेश्याः । पक्षान्तरमाह--एकैकमेव वा । वैश्वदेवे पित्र्ये च एकमेकमु घवेशयेत् । संभवतो विकल्पः । मातामहानामप्येवं श्राद्धे निमत्रणादि । द्वे । देवे प्राक् त्रयः पित्र्ये उद्गेकैकमेव वेत्येव मतं पितृश्राद्धवत्कर्तव्यम् । पितृश्राद्धं माता महश्राद्धे च वैश्वदेविकं पृथक् तत्रेण वा कर्तव्यम् । तत्रशब्दः समुदायवाचकः । यदा तु द्वावेव ब्राह्मणैौ लब्धौ तदा वैश्वदेवे पात्रं प्रकल्प्य उभयत्रैकैकं ब्राह्मणं नियु 5यात् । यथाह वसिष्ठः–‘यद्येकं भोजयेच्छाद्धे दैवं तत्र कथं भवेत् । अलं पात्रे समुद्धृत्य सर्वस्य प्रकृतस्य च ॥ देवतायतने कृत्वा ततः श्राद्धं प्रवर्तयेत् । प्रायेद्दल तदौ तु दद्याद्वा ब्रह्मचारिणे ॥’ इति ॥ २२८ ॥

पाणिप्रक्षालनं दत्त्वा विष्टरार्थ कुशानपि ।
आवाहयेदनुज्ञातो विश्वेदेवास इत्यूचा ।। २२९ ।।

तदनन्तरं वैश्वदेवार्थब्राह्मणहस्ते जलं दत्त्वा विष्टरार्थ कुशांश्च युग्मान् द्विगुणिता नासने दक्षिणतो दत्त्वा विश्वान्देवानावाहयिष्ये इति ब्राह्मणान् पृष्टा तैरावाहयेत्यनु ज्ञातो ‘विश्वेदेवास आगत’ इत्यनयची ‘आगच्छंतु महाभागाः’ इत्यनेन च स्मार्तेन मत्रेण तानावाहयेत् । एतच्च यज्ञोपवीतिना प्रदक्षिणं च कार्यम्–‘अपसव्यं ततः कृत्वा पितृणामप्रदक्षिणम्’ इति पित्र्ये विशेषस्मरणात् ॥ २२९ ॥

यवैरन्ववकीर्याथ भाजने सपवित्रके ।
शंनोदेव्या पयः क्षिप्वा यवोऽसीति यवांस्तथा ।। २३० ।।
या दिव्या इति मत्रेण हस्तेष्वध्यै विनिक्षिपेत् ।

ततो वैश्वदेवार्थब्राह्मणसमीपे भूमिं प्रादक्षिण्येन यवैरन्ववकीर्य अनन्तरं तैज सादिभाजने सपवित्रके कुशयुग्मान्तर्हिते ‘शं नो देवीरभिष्टय' इत्यनयचौपः क्षिावा 'यवोऽसि धान्यराजेो वा' इत्यादिना मत्रेण यवान् ततो गन्धपुष्पाणि च क्षिस्वाऽ नन्तरं अध्यैपात्रपवित्रान्तर्हितेषु ब्राह्मणहस्तेषु ‘या दिव्या आपः पृथिवि' इत्यादिना मत्रेण विश्वेदेवा इदं वोऽध्यै इत्यध्यदकं विनिक्षिपेत् ॥ २३० ॥

दत्त्वोदकं गन्धमाल्यं धूपदानं सदीपकम् ।। २३१ ।।
तथाच्छादनदानं च करशौचार्थमम्बु च ।

अथ करशैौचार्थमुदकं दत्त्वा यथाक्रमं गन्धपुष्पधूपदीपदानं कुर्यात् तथाच्छाद-


१ वीतिना सव्येन च ख . २ विश्वदेवार्थ-ख.