पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/१०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७२
[ आचाराध्यायः
याज्ञवल्क्यस्मृतिः

नदानं च । गन्धादीनां स्मृत्यन्तरोक्तो विशेषो द्रष्टव्य –“चन्दनकुङ्कमकर्तृरागरुप इह्मकान्युपलेपनार्थम्’ इति विष्णुनोक्तम् । पुष्पाणिच–“श्राद्धे जात्यः प्रशस्ता स्युर्मछिका चेतयूथिका । जलोद्भवानि सर्वाणि कुसुमानि च चम्पकम् ॥' इत्यु क्तानि । वज्र्यानेि च–‘उग्रगन्धीन्यगन्धीनि चैत्यवृक्षोद्भवानि च । पुष्पाणि वर्ज नीयानि रक्तवर्णानि यानि च । ’ ‘न कण्टकिजम् । कैण्टकिजमपि शुकं सुगन्धि यत्तदद्यात् । न रक्त दद्यात् । रक्तमपि कुङ्कमजं जलजं च दद्यात्' इत्यादीनि दृष्ट व्यानि । धूपे च विशेषो विष्णुनोक्त –‘प्राण्यङ्गं सर्व धूपार्थे न दद्यात् । धृतम धुसंयुक्तं गुग्गुलश्रीखण्डागारुदेवदारुसरलादि दद्यात्' इति । दीपे च विशेषः शङ्गे नोक्तः–‘घृतेन दीपो दातव्यतिलतैलेन वा पुनः । वसामेदोद्भवं दीपं प्रयलेन विवर्जयेत् ॥’ इति आच्छादनं च शुभ्र नवमहतं सदशं दद्यादिनि । पुतञ्च सर्व वैश्वदेवानुष्ठानकाण्डमुदङ्मुखः कुर्यात् । पित्र्यं काण्डं दक्षिणामुग्व । यथाह वातातप उदडुखस्तु देवानां पितृणां दक्षिणाभिमुग्वः । प्रदद्यात्पार्वणे सर्व देवपूर्व विधानत ॥' इति ॥ २३१ ॥

अपसव्यं ततः कृत्वा पितृणामप्रदक्षिणम् ।। २३२ ।।
द्विगुणांस्तु कुशान्दैत्वा द्युशन्तस्त्वेत्यूचा पितृन् ।
आवाह्य तदनुज्ञातो जपेदायन्तुनस्ततः ।। २३३ ।।

ततो वैश्वदेवकाण्डानन्तरमपसव्यं यज्ञोपवीतं प्राचीनाचीतं कृत्वा । अत्र तत इति वदता काण्डानुसमयो दर्शितः । पित्रादीनां त्रयाणामयुग्मान्कुशान्द्विगुणभुझान् अप्रदक्षिणं वामतो विष्टरार्थमासनेपूदकपूर्वकं दत्त्वा पुनरुदकं दद्यात् । “अपः प्रदाय दैर्भन्द्विगुणभुझानासनं प्रदायापः प्रदाय' इत्याश्वलायन (गृ. सू. अ. ४ खं. ७) स्मरणातू । एतच्चाद्यन्तयोरुदकदानं वैश्वदेवे पिञ्ये च प्रतिपदार्थ प्रतिपादनार्थे द्रष्ट व्यम् । अथ पितृन् पितामहान् प्रपितामहानावाहयिष्य इति ब्राह्मणान्पृष्टा आवा हयेति तैरनुज्ञातः ‘उशन्तस्त्वा निधीमहि' इत्यनयच पित्रादीनावाह्य ‘आयन्तु न पितरः’ इत्यादिना मत्रेणोपतिष्ठत ॥ २३२ ॥ २३३ ॥

अपहृता इति तिलान्विकीर्ये च समन्ततः ।
यवार्थास्तु तिलैः कार्याः कुर्यादध्यौदि पूर्ववत् ।। २३४ ।।
दत्वाध्यै संस्रवांस्तेषां पात्रे कृत्वा विधानतः ।
पितृभ्यः स्थानमसीति न्युङ पात्रं करोत्यधः ।। २३५ ।।

यवार्था यवसाध्यानि कार्याण्यवकिरणादीनि तिलैः कर्तव्यानि । ततोऽध्र्यपात्रा सादनाच्छादनान्तं पूर्ववत्कुर्यात् । तन्नार्य विशेषः-तिलान् “अपहृता असुरा रक्षांसि इत्यादिना मत्रेण ब्राह्मणान्परितोऽप्रदक्षिणमन्ववकीर्य राजतादिषु पात्रेषु त्रिष्वयु मकुशनिर्मितकूचन्तर्हितेषु ‘शं नो देवीः’ इति मश्रेणापः क्षिप्तवा ‘तिलोसेि सोम-


१ अकण्टकिजं ख. २ कुशान्कृत्वा क. ३ द्विगुणभुझान्कुशान्दत्वापः-ख. ग