सामग्री पर जाएँ

पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/१०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
श्राद्धप्रकरणम् १०]
७३
मिताक्षरासहिता ।

दैवत्य' इत्यादिमत्रेण तिलान् गन्धपुष्पाणि च क्षिप्वा स्वधाध्यौः इति ब्राह्मणानां पुरतोऽध्र्यपात्राणि स्थापयित्वा ‘यादिव्या' इति मन्नान्ते पितरिदं तेऽध्यै पितामहेदं तेऽध्यै प्रपितामहेदं तेऽध्यैमिति ब्राह्मणानां हस्तेष्वध्यै दद्यात् । एकैकमुभयत्र वेत्य सिन्नपि पक्षे पात्रत्रयं कार्यम् । एवमध्यं दत्वं तेषामध्यौणां संस्रवान्ब्राह्मणहस्त गलिताधेदकानि पितृपात्रे गृहीत्वा दक्षिणाग्रे कुशस्तम्बं भूमौ निधाय तस्योपरि पितृभ्यः स्थानमसि’ इत्यनेन मत्रेण तत्पात्रं न्युञ्जमधोमुखं कुर्यात् । तस्योपरि अध्र्यपात्रपवित्राणि निदध्यात् । अनन्तरं गन्धपुष्पधूपदीपाच्छादनानि पितरयं ते गन्धः पितरिदं ते पुष्पमित्यादिना प्रयोगेण दद्यात् ॥ २३४ ॥ २३५ ॥
अमाकरणमाह द्वाभ्याम्--

अप्रैौकरिष्यन्नादाय पृच्छत्यन्ने घृतपुतम् ।
कुरुष्वेत्यभ्यनुज्ञातो हुत्वाग्रौ पितृयज्ञवत् ।। २३६ ।।
हुतशेषं प्रदद्यातु भाजनेषु समाहितः ।
यथालाभोपपन्नेषु रौप्येषु च विशेषतः ।। २३७ ।।

अनन्तरमप्रैौकरिष्यन्घृतसुतं घृताक्तमन्नमादाय ब्राह्मणान् पृच्छेदौकरिष्ये इति । घृतग्रहणं सूपशाकादिनिवृत्यर्थम् । तततैः कुरुष्वेत्यभ्यनुज्ञातः प्राचीनावीती शुद्ध मन्नमुपसमाधाय मेक्षणेनादायावदानसंपदा जुहुयात् ‘सोमायपितृमते स्वधानमः । अन्नये कव्यवाहनाय स्वधानमः’ इति पिण्डपितृयज्ञकल्पेनाझैौ हुत्वा मेक्षणमनुप्र हृत्य हुतशेषं मृन्मयवर्ज यथालाभोपपन्नेषु विशेषतो रौप्येषु पित्रादिभाजनेषु दद्यात् न वैश्वदेवभाजनेषु । समाहितोऽनन्यमनस्कः । अत्र यद्यप्यझावित्यविशेषेणोक्तं त थाप्याहिताझेः सर्वाधानपक्षे औपासनाझेरभावात् पिण्डपितृयज्ञानन्तरभाविनि पार्व णश्राद्धे विहँतदक्षिणाझेः संनिधानाद्दक्षिणाझेौ होमः–‘कर्म स्मार्त विवाहाझौ' इत्य स्यापवाददर्शनात् । यथाह मार्कण्डेयः–“आहिताझिस्तु जुहुयाद्दक्षिणाझेौ समा हितः । अनाहिताग्निस्त्वेोपसथेऽयभावे द्विजेऽप्सु वा ॥' इति । अधौधानपक्षे त्वैपा सनान्निसद्भावादाहिताझेरनाहिाझेरिवैपासनाझावेवाौकरणहोमः । एवमन्वष्टका दिपुत्रिष्वपि पिण्डपितृयज्ञकल्पैतिदेशात्। काम्यादिषु चतुर्यु ब्राह्मणपाणावेव होमः । यथाहुर्गुह्यकाराः–“आन्वष्टक्यं च पूर्वेद्युर्मासिमास्यथ पार्वणम् । काम्यमभ्युदये ऽष्टम्यामेकोद्दिष्टमथाष्टमम् ॥ चतुष्वद्येषु साझीनां वह्नौ होमो विधीयते । पित्र्यब्रा ह्मणहस्ते स्यादुत्तरेषु चतुष्र्वपि ॥’ अस्यार्थः-हेमन्तशिशिरयोश्चतुर्णमपरपक्षाणाम ष्टमीष्वष्टकाः’ (गृ.सू.२॥३) इत्यष्टका विहिताः । तत्र नवम्यां यत्क्रियते तदन्वष्टक्य म् । ससम्यां क्रियमाणं पूर्वेद्युः । मासेि मासि कृष्णपक्षे पञ्चमीप्रभृतिषु यस्यां कस्यां-


१ पात्रे प्रथमे गृहीत्वा ग. २ वीतीध्ममुप-क. वीत्यग्रिमुप-ख. ३ विहित ख. ४ स्त्वौ पासनेऽझयभावे ग. ५ झरप्यौपासना ख. ग. ६ कल्पेनेतिनिदेशात् क.