पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६८
[ आचाराध्यायः
याज्ञवल्क्यस्मृतिः

पक्षोऽपरपक्षः । अयनद्वयं दक्षिणोत्तरसंज्ञकम् । द्रव्यं कृसरमाषादिकम् । ब्राह्मणः संपत्तिर्वक्ष्यमाणा । विषुवद्भयं मेषतुलयोः सूर्यगमनम् । सूर्यसंक्रम आदित्यस्य राशे राश्यन्तरगमनम् । अयनविषुवतोः संक्रान्तित्वे सिद्धेऽपि पृथगुपादार्न फलातिशय प्रतिपादनार्थम् । व्यतीपातो योगविशेषः । गजच्छाया–‘यदेन्दुः पितृदैवत्य हंस चैव करे स्थितः । येस्यां तिथिर्भवेत्सा हेि गजच्छाया प्रकीर्तिता ।।' इति परिभा षिता । हस्तिच्छायेति केचित् । सेह न गृह्यते कालप्रक्रमात् । ग्रहणं सोमसूर्ययोरु परागः । यदा च कर्तु श्राद्धं प्रति रुचिर्भवति तदापि । चशब्दाद्युगादिप्रभृतय । पुते श्राद्धकालाः । यद्यपि–“चन्द्रसूर्यग्रहे नाद्यातू’ इति ग्रहणे भोजननिषेधस्तथापि भोत्कुदोषो दातुरभ्युदयः ॥ २१७ ॥ २१८ ॥
अहरहःश्राद्धव्यतिरिक्तवक्ष्यमाणचवतुर्विधश्राद्धेपु ब्राह्मणसंपत्तिमाह--

अग्रयाः सर्वेषु वेदेषु श्रोत्रियो ब्रह्मविद्युवा ।
वेदार्थविज्येष्ठसामा बिमधुत्रिसुपर्णिकः ।। २१९ ।।

सर्वेषु वेदेषु ऋग्वेदादिपु अनन्यमनस्कतयाप्यजस्वास्खलिताध्ययनक्षमा अग्रयाः । श्रोत्रियः श्रुताध्ययनसंपन्न । वक्ष्यमाण ब्रह्म यो वेत्ति असी ब्रह्मविन् । युवा मध्य मवयस्कः । सर्वस्येदं विशेषणम् । मञ्चब्राह्मणयोरर्थ वेत्तीति वेदार्थवित् । ज्येष्ठसाम सामविशेषस्तदध्ययनाङ्गबतं च तद्रताचरणेन यस्तदधीते स्म ज्येष्ठसामा । त्रिमधु ऋग्वेदैकदेशस्तद्रतं च तद्रताचरणेन तैदधीते इति त्रिमधुः । त्रिसुपर्ण ऋग्यजुषोरे कदेशस्तङ्गतं च तद्रताचरणेन यस्तदधीते स त्रिसुपर्णिकः । एते ब्राह्मणाः श्राद्धसंपद इति वक्ष्यमाणेन संबन्ध ।। २१९ ।।

स्वस्रीयत्रत्विज्जामातृयाज्यश्वशुरमातुलाः ।
त्रिणाचिकेतदौहित्रशिष्यसंबन्धिबान्धवाः ।। २२० ।।

स्वस्रीयो भागिनेयः । ऋत्विगुक्तलक्षणः । जामाता दुहितुर्भत । त्रिणाचिकेतं यजुर्वेदैकदेशः तद्वतं च तद्रताचरणेन यस्तदध्यायी स त्रिणाविकेतः । अन्यत्प्रसि द्धम् । एते च पूर्वोक्ताश्रयश्रोत्रियाद्यभावे वेदितव्याः–“पुषवै प्रथमः कल्पः प्रदाने हव्यकव्ययोः । अनुकल्पस्त्वयं प्रोक्तः सदा सद्भिरगर्हितः ॥’ इत्यभिधाय (३॥१ ४७) मनुना स्वस्रीयादीनामभिहितत्वात् ॥ २२० ॥

कर्मनिष्ठास्तपोनिष्ठाः पञ्चाग्निर्बह्मचारिणः ।
पितृमातृपराश्चैव ब्राह्मणाः श्राद्धसंपदः ।। २२१ ।।

कर्मनिष्ठा विहितानुष्ठानतत्पराः । तपोनिष्ठास्तपःशीलाः । सभ्यावसथ्यौ त्रेता झयश्च यस्य सन्ति स पञ्चान्निः पञ्चाििवद्याध्यायी च । ब्रह्मचारी उपकुवणको नैष्ठिकश्च । पितृमातृपरास्तत्पूजापराः । चकारात् ज्ञाननिष्ठादयः । ब्राह्मणाः न क्षत्रि यादयः । श्राद्धसंपदः । श्राद्धेष्वक्षय्यफलसंपत्तिहेतब ॥ २२१ ॥


१ कृष्णंसारमांसादि ख. २ याम्या तिथिः ख. ग. ३ तदध्यायी क. ग. ४ वक्ष्य माणक्रियासंबन्धः ख. ग. ५ श्राद्धसंपदे क. ग.