तुण्डादयो निर्युक्ता एव भक्ष्याः । “पाठीनरोहितावाद्यौ नियुक्तौ हव्यकव्ययोः ।
राजीवाः सिंहतुण्डाश्च सशल्काश्चैव सर्वश ॥’ इति (५॥१६) मनुस्मरणात् ।
द्विजातिग्रहणं शूद्रव्युदासार्थम् ॥ १७७ ॥
अनचैितं द्विजातिधर्मानुक्त्वेदानीं चातुर्वण्र्यधर्मानाह-
अतः शृणुध्वं मांसस्य विधिं भक्षणवर्जने ।। १७८ ।।
मांसस्य प्रोक्षितादेर्भक्षणे तञ्द्यतिरिक्तस्य च निषिद्धस्य वर्जने प्रोक्षितादिव्य
तिरेकेण मांसं न भक्षयामीत्येवं संकल्परूपेण विधिं सामश्रवःप्रभृतयः हे मुनयः
शृणुध्वम् ॥ १७८ ॥
तत्र भक्षणे विधिं दर्शयति-
प्राणात्यये तथा श्राद्धे प्रेोक्षिते द्विजकाम्यया ।
देवान्पितृन्समभ्यच्र्य खादन्मांसं न दोपभाक् ।। १७९ ।।
अन्नाभावेन व्याध्यभिभवेन वा मांसभक्षणमन्तरेण यदा प्राणबाधा भवति
तदा मांसं नियमेन भक्षयेत् । ‘सर्वत एवात्मानं गोपायेत्’ इत्यात्मरक्षाविधा
नात् । “तैस्मादु ह न पुरायुषः स्वःकामी प्रेयात्’ इति मरणनिषेधाश्च । तथा
श्राद्धे मांसं निमन्नितो नियमेन भक्षयेत । अभक्षणे दोपश्रवणात् ।–‘यथाविधि ।
नियुक्तस्तु यो मांसं नाति मानवः । स प्रेत्य पशुतां याति संभवानेकविंश
तिम् ॥’ इति मनुस्मरणात् । ओक्षणाख्यश्रौतसंस्कारसंस्कृतस्य पशोर्यागार्थस्याग्री
षोमीयादेर्हतावशिष्टं मांसं प्रोक्षितं तद्भक्षयेत् । अभक्षणे यागानिष्पत्तेः । द्विज
काम्या ब्राह्मणभोजनार्थ देवपित्रर्थे च यत्साधितं तेन तानभ्यच्यवशिष्टं भक्ष
यन्न दोषभाग्भवति । एवं भृत्यभरणावशिष्टमपि ।–‘यज्ञार्थ ब्राह्मणैर्वध्याः प्रशस्ता
मृगपक्षिणः । भृत्यानां चैव वृत्त्यर्थमगस्त्यो ह्याचरत्पुंरा ॥’ इति (५॥२२) मनु
स्मरणात् । न दोषभागिति दोषाभावमात्रं वदता अतिथ्याद्यर्चनावशिष्टस्याभ्य
नुज्ञामात्रं न प्रोक्षितादिवन्नियम इति दर्शितम् । एवमप्रतिषिद्धानामपि शशा
दीनां प्राणात्ययव्यतिरेकेणाभक्ष्यत्वावगमात् शूद्रस्यापि मांसप्रतिबद्धः सर्वविधि
निषेधाधिकारोऽवगम्यते ॥ १७९ ॥
इदानीं प्रोक्षिताव्यतिरिक्तस्य वृथामांसमित्यनेन प्रतिषिद्धस्य भक्षणे निन्दार्थवादमाह--
वसेत्स नरके घोरे दिनानि पशुरोमभिः ।
संमितानि दुराचारो यो हन्त्यविधिना पशून् ।। १८० ।।
अविधिना देवताद्युद्देशमन्तरेण यः पशून्हन्ति स तस्य पशोर्यावन्ति रोमाणि तावन्ति दिनानेि घोरे नरके वसेत् । हन्तीत्यष्टविधोऽपि धातको गृह्यते ।
१ नियुक्तस्यैव क. २ चातुर्वण्यै प्रत्याह क. ३ तस्मादिह ख. ४ अभक्षणाद्यागा ख. ५ ह्यचरत्तथा ख.