पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
भक्ष्याभक्ष्यप्रकरणम् ७ ]
५३
मिताक्षरासहिता ।

ऽकालप्ररूढानि पुष्पाणि च फलानि च । विकारवच यत्किंचित्प्रयलेन विवर्जयेत् ॥’ ‘तथा वटप्क्षाश्वत्थर्कपित्थनीपमातुलिङ्गफलानि वर्जयेत्’ इति स्मरणात् । एतान्संधिनीक्षीरप्रभृतीननुक्रान्तान्कामतो भक्षयित्वा त्रिरात्रमुपवसेत् । अका मतस्त्वहोरात्रम् । ‘शेषेधूपवसेदहः’ इति मनुस्मरणात् । यत्पुनः शङ्गेनोक्तम् ‘बलबलाकाहंसप्लवचक्रवाककारण्डवगृहचटककपोतपारावतपाण्डुशुकसारिकासा रसटिट्टिभोलककङ्करक्तपादचाषभासवायसकोकिलशाङ्गलिकुकुटहारीतभक्षणे द्वाद शरात्रमनाहारः पिबेद्रोमूत्रयावकम्’ इति तद्वहुकालाभ्यासे मतिपूर्वे समस्तभ क्षणे वा वेदितव्यम् ॥ १७५ ॥

पलाण्डं विङ्कराहं च छत्राक ग्रामकुकुटम् ।
लशुनं गृञ्जनं चैव जग्ध्वा चान्द्रायणं चरेत् ।। १७६ ।।

पलाण्डुः स्थूलकन्दनालो लशुनानुकारी । विङ्कराहो छत्राकं सर्प छत्रम् । प्रामकुकुटः प्रसिद्धः । लशुनं रसोनं सूक्ष्मश्धतकन्दनालम् । गृञ्जनं लशु नानुकारिलोहितसूक्ष्मकन्दम् । एतानि षट् सकृत्कामतो जग्ध्वा भक्षयित्वा चान्द्रायणं वक्ष्यमाणलक्षणं चरेत् । ग्रामकुकुटछत्राकयोः पूर्वप्रैतिषेधितयोरिहाभि धानं पलाण्ड्रादिसमानप्रायश्चित्तार्थम् । मतिपूर्व चिरतराभ्यासे तु ‘छत्राकं वेिङ्क राहं च लशुनं ग्रामकुकुटम् । पलाण्डं गृञ्जनं चैव मत्वा जग्ध्वा पतेद्विजः’ इति (५॥१९) मनूक्तम् । अमतिपूर्वाभ्यासे —‘अमत्यैतानि षड् जग्ध्वा कृच्छू सान्त पनं चरेत् । तृतीयाध्याये वक्ष्यमाणं यतिचान्द्रायणं वापि' इति द्रष्टव्यम् । अमतिपूर्वाभ्यासे तु शङ्खोक्तं—‘लशुनपलाण्डुगृञ्जनविङ्कराहग्रामकुकुटकुम्भीक भक्षणे द्वादशरात्रं पयः पिबेत्’ इति ॥ १७६ ॥

भक्ष्याः पञ्चनखाः सेधागोधाकच्छपशछकाः ।
शशश्च मत्स्येष्वपि हेि सिंहतुण्डकरोहिताः ।। १७७ ।।
तथा पाठीनराजीवसशल्काश्च द्विजातिभिः ।

सेधा श्वावेित् । गोधा कृकलासानुकारिणी महती । कच्छपः कूर्मः । शलक शलॅकी । शशः प्रसिद्धः । पञ्चनखादीनां श्वमाजौरवानरादीनां मध्ये एते सेधा दयो भक्ष्याः । चकारात्खङ्गोऽपि । यथाह गौतम –‘पञ्चनखाः शशलुकश्वा विद्रोधाखङ्गकच्छपाः’ इति । यथाह मनुरपि—‘श्वाविधं शर्लकं गोधां खङ्गकू र्मशशांस्तथा । भक्ष्यान्पञ्चनखेष्वाहुरनुष्ट्रांश्चैकतोदतः ॥’ इति । यत्पुनर्वसिष्ठन खङ्गे तु विवदन्ते’ इत्यभक्ष्यत्वमुक्तं तच्छाद्धादन्यत्र । ‘खङ्गमांसैर्भवेद्दत्तमक्षय्यं पितृकर्मणि' इति श्राद्धे फलश्रुतिदर्शनात् । तथा मत्स्यानां मध्ये सिंहतुण्डाद्यो भक्ष्याः । सिंहतुण्डः सिंहमुखः । रोहितो लोहितवर्णः । पाठीनश्चन्द्रकाख्यः । राजीवः पद्मवर्णः । सह शल्कैः शुक्याकारैर्वर्तत इति सशल्कः । एते च सिंह-


१ दधित्थ क. २ प्रतिषिद्धयो क. ३ शल्यकाः क. ४शालुकः शाली. ५ शल्यकं