यथाह मनुः (५॥५१) ‘अनुमन्ता विशसेिता निहन्ता क्रयविक्रयी । संस्कर्ता
चोपहर्ता व खादकश्चेति घातकाः ॥’ इति ॥ १८० ॥
इदानीं वर्जने विधिमाह-
सर्वान्कामानवाझेोति हयमेधफलं तथा ।
गृहेऽपि निवसन्विप्रो मुनिर्मासविवर्जनात् ।। १८१ ।।
यः प्रोक्षितादिव्यतिरेकेण मया मांसं न भक्षितव्यमिति सत्यसंकल्पो भवति
स सर्वान्कामान् तत्साधने प्रवृत्तो निर्वित्रं प्राप्तोति । विशुद्धाशयत्वात् । यथाह
मनुः (५॥४७)-‘यद्धयायते यत्कुरुते रतिं बञ्जाति यत्र च । तद्वाझोल्यविज्ञेन
यो हिनस्ति न किंचन ।।' इति । एतच्चानुषङ्गिकं फलम् । मुख्यं फलमाह
हयमेधफलं तथेति । एतच्च सांवत्सरिकसंकल्पस्य ।–“वर्षे वर्षेऽश्वमेधेन यो यजेत
शतं समाः । मांसानि च न खादेद्यस्तयोः पुण्यफलं समम् ॥’ इति (५॥५३)
मनुस्मरणात् । तथा गृहेऽपि निवसन्ब्राह्मणादिश्चातुवर्णिको मुनेिवन्माननीयो
भवति मांसत्यागात् । एतच न प्रतिषिद्धमाँसविषयं नापि ओोक्षितादिविषयम्,
किंतु पारिशेष्यादतिथ्याद्यर्चनावशिष्टाभ्यनुज्ञातविषयमिति ॥ १८१ ॥
इति भक्ष्याभक्ष्यप्रकरणम् ।
अथ द्रव्यशुद्विप्रकरणम् ८
इदानीं द्रव्यशुद्धिमाह--
सौवर्णराजताङजानामृध्र्वपात्रग्रहाश्मनाम् ।
शाकरलुमूलफलवासोविदलचर्मणाम् ।। १८२ ।।
पात्राणां चमसानां च वारिणां शुद्धिरिष्यते ।
चरुसुचुक्सुवसखेहपात्राण्युष्णेन वारिणा ।। १८३ ।।
सौवर्ण सुवर्णकृतम् । राजतं रजतकृतम् । अङ मुक्ताफलशङ्खशुक्त्यादि । ऊध्र्वपात्रं यज्ञियोललूखलादि, ग्रहादिसाहचर्यात् । ग्रहाः षोडेशिप्रभृतयः । अश्मा दृषदादिः । शाकं वास्तुकादि । रज्जुः बल्वजादिनिर्मिता । मूलमाकादि । फल माम्रादि । वासो वस्रम् । विदलं वैणवादि । चर्म अजादीनाम् । विदलचवर्मणो ग्रहणं तद्विकाराणां छत्रवरत्रादीनामुपलक्षणार्थम् । पात्राणि प्रोक्षणीपात्रप्रभृतीनि । चमसा होतृचमसादयः । एतेषां सौवर्णादीनां लेपरहितानामुच्छिष्टस्पर्शमात्रे वारिणा प्रक्षालनेन शुद्धिः । चवरुश्चरुस्थाली । त्रुक्स्रवौ प्रसिद्धौ । सखेहानि पात्राणि प्राशित्रहरणादीनि । एतानि च लेपरहितान्युष्णेन वारिणा शुद्धयन्ति । निलेपं काञ्चनं भाण्डमद्भिरेव विशुद्धयति । अञ्जमश्ममयं चैव राजतं चानुप-
१ परिशेषात् ख. २ षोडशी यशिष्यपात्रविशेषः. या. ८