पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

केचन यज्ञदिदृक्षवश्चाभिसंगता बभूवुः । अथ मिलितं विद्वत्समाजमालोच्यं यियक्षमा णस्य जनकस्य जिज्ञासा बभूव किल कोनु खल्वत्रानूचानतमो ब्रह्मिष्ठ इति । सच गवां सहस्र रुद्वोवाच हे भगवन्तः, यो वो ब्रह्मिष्ठः स एता गा उत्कालयतु खगृहं प्रतीति । तदैते ब्राह्मणा न दधृषुः । अथ याज्ञवल्क्यो निजमन्तेवासिनमुवाच हे सौम्य, उत्कालयेमा गा अस्मदृहान्प्रतीति । एतच्छुत्वा सचोत्कालितवानाचार्यगृहं प्रतीत्याख्यायिकायामखिलविप्रसमाजापमाननमभवत् ।

अथ कदाचन वैशंपायनस्य ब्रह्महत्यादोष उदभूत् । तदंहोनिबर्हणाय वैशंपायन खच्छात्रान् ब्रह्महत्यामार्जनक्षमं व्रतमादिदेश । तदानीं याज्ञवल्क्यः प्रोवाच भगवन् श्रीमदुत्तं व्रतं सुदुश्चरमप्यहमेवाचरिष्ये किमल्पसाराणामेतेषामादेशेने ति । तदिदं विप्रा वमानकारकं याज्ञवल्क्योक्त श्रुत्वा वैशंपायनश्रुक्रोध । आहच याज्ञवल्क्यं ब्राह्मणाव मन्ता त्वमसि अतो मत्तो यदधीतं तत्सर्वं त्यक्त्वा याहीति । तदसहिष्णुर्याज्ञवल्क्यो ऽधीतं यजुर्वेदगणं छर्दित्वा गुरुमुत्सृज्यागच्छत् । आरराधच भगवन्तं सूर्यनारायण मेकान्तभावेन । निःसीमनिजपरिचरणपरितुष्टो भगवानादित्योऽयातयामानि यजूंषि तस्मै प्रायच्छत् । तैयज्ञवल्क्यो वाजसनीसंज्ञाः शाखा अकरोत् इति श्रीभागवते । विज्ञानेश्वरविषये मिताक्षरोपसंहारे

नासीदस्ति भविष्यति क्षितितले कल्याणकल्पं पुरं
नो दृष्टः श्रुत एव वा क्षितिपतिः श्रीविक्रमार्कोपमः ।
विज्ञानेश्वरपण्डितो न भजते किंचान्यदन्योपम
श्राकल्पं स्थिरमस्तु कल्पलतिकाकल्पं तदेतत्रयम् ॥
स्रष्टा वाचां मधुरवपुषां विद्वदाश्चर्यसीस्रां
दातार्थानामतिशयजुषामर्थिसार्थार्थनायाः ।
आ च प्राचः समुद्रान्नतनृपतिशिरोरलभाभासुराङ्गिः
पायादाचन्द्रतारं जगदिदमखिलं विक्रमादित्यदेवः ॥

इत्यादिलेखादस्य नृपविक्रमादित्यकालीनत्वं स्फुट भवति । तत्र कल्याणपुरमिति नान्ना प्रसिद्धं नगरमस्त्यधुना हैदराबादराज्ये कल्याणकीर्तिनान्ना प्रथितम् । तत्रल्या राजानश्धौलुक्यान्ववायाः । तेषां वंशावलिर्दक्षिणेतिहासाख्यकोशे भाण्डारकरोपाहै रामकृष्ण गोपालसंज्ञया प्रथितैः सविस्तरं प्रकाशितास्ति । तत्रैव विक्रमादित्यराजा समजनि यदाश्रयेणैव विदुषामग्रेसरेण विज्ञानेश्वरेण मिताक्षराख्या याज्ञवल्क्यस्मृति व्याख्या निरमाथि । तस्य च राज्यकालो यूनसहस्रशाकमारभ्य यूनपञ्चाशदधिकसहस्र मितशकपर्यन्तं पञ्चाशदब्दमित एवासीत् । एवं सति गुर्जराङ्कितयाज्ञवल्क्यस्मृतिप्रस्तावे बापूशास्रीमोघे इलेतैः ‘विक्रमादित्यकालीनोयं विज्ञानेश्वरः तद्रन्थस्य मिताक्षराख्यस्य संवदभिधशकप्रवर्तकविक्रमादित्यदेवकालिकतावसीयते ' इत्यादिप्रकटितं परास्तम् ।