पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

धर्मत्वमिति केचित् । वस्तुतस्तु अलौकिकश्रेयःसाधनत्वेन विहितक्रियात्वं विहितत्वं वा धर्मत्वमिति स्फुटं निरणायि विद्वलामेन गागाभट्टेन ॥ मिताक्षराकारस्तु धर्मशब्दः षङ्गिधस्मार्तधर्मविषय तद्यथा-‘वर्णधर्म आश्रमधर्मो वर्णाश्रमधर्मो गुणधर्मो निमित्तधर्मः साधारणधर्मश्चेति । तत्र वर्णधर्मो नित्यं मयं वर्जयेदित्यादिः । आश्रमधर्मोऽग्रीन्धनभैक्षचर्यादिः । वर्णाश्रमधर्मः पालाशो दण्डो ब्रह्मणस्येत्येवमादिः । गुणधर्मः शास्त्रीयाभिषेकादिगुणयुक्तस्य राज्ञः प्रजापालनादिः । निमित्तधर्मो विहिता करणप्रतिषिद्धसेवननिमित्तं प्रायश्चित्तम् । साधारणधर्मोऽहिंसादिः न हिंस्यात्सर्वा भूतानीत्याचाण्डालं साधारणो धर्मः’ इति । एवं गुणविशिष्टधर्मप्रतिपादकं शास्रमेव श्रधर्मशास्त्रमिति जेगीयते । आस्तां दुरूहविषयमीमांसाविस्तरेण । प्रकृतमनुसरामः ।

अखिलधर्माणामाचार-व्यवहार-प्रायश्चित्ताख्यकोटित्रयपर्यवसानात्तद्विवेचनमन्तरा दुज्ञेयैव धर्मशास्त्रसिद्धिरिति विचार्ये सर्वमानवप्राण्युद्दिधीषुः परमकारुणिको याज्ञ वल्क्ययोगीन्द्रो निजनामधेयोट्टङ्कितां याज्ञवल्क्यस्मृतिमचीकृपत् । अथ च वाचंयमवचोगुम्फस्य सूत्रवदल्पाक्षरत्वेन दुरूहस्य यथावदवबुबोधयिषुरखिलश्रुतिस्मृति शास्राब्धिपारदृश्धा सर्वतन्त्रखतन्त्रो विज्ञानेश्वरो विपुलार्थवतीमपि प्रमिताक्षर मेिताक्षरानास्रीं याज्ञवल्क्यस्मृतिव्याख्यामरीरचत् ।

यद्यपि याज्ञवल्क्यस्थितिकाल पुरुषायुषेण मतिमदग्रेसरेणापि निश्चतुमशक्यस्तथापि श्रीमद्भागवतद्वादशस्कन्धे–“ते परम्परया प्राप्तास्तत्तच्छिष्यैर्धतत्रतेः । चतुर्युगेष्वथ व्यस्ता द्वापरादौ महर्षिभिः ॥’ अस्यार्थः--एवं चतुर्युगेषु प्राप्ताः द्वापरादौ द्वापरमादिर्यस्य तदयनांशलक्षणस्य कालस्य तस्मिन्द्वापरान्ते वेदविभागसिद्धे शंतनुकालसमकालं व्यासावतारप्रसिद्धेश्च । व्यस्ता विभक्ताः । अस्मिन्नप्यन्तरे ब्रह्मन्भगवॉलुोकभावन । ब्रह्मशाचैलोकपालैर्याचितो धर्मगुप्तये ॥ पराशरात्सत्यवत्यामंशांशाकलया विभुः । अवतीर्णो महाभाग वेदं चक्र चतुर्विधम् ॥’ इति । अतो द्वापरस्यान्तिमकाले कलियुगारम्भात्पूर्वं व्यासावतारः । स च तदानीमेव ऋगादिसंहिताश्चतस्रो विभज्यैकैकस्मै शिष्यायैकैकां संहितां ददौ । तत्र च यजुर्वेदसंहितां वैशंपायनायादात् । तस्यैवान्तेवासी याज्ञवल्क्यो बभूवेति

एकदा विदेहत्वेन सुप्रसिद्धस्य जनकस्य सदस्येव ब्रह्मवादचर्चाप्रसङ्गे कहोडादि ब्रह्मर्षिवरै राज्ञा विदेहेन च याज्ञवल्क्याग्रे ब्रह्मविद्योपनिबद्धास्तत्रतत्र नैकशः पूर्वपक्षा कृतास्तदानीं याज्ञवल्क्यो निजातक्र्यमतिवैभवेन सर्वेषां पूर्वपक्षाणां यथावदुत्तर रूपेण सर्वान्समादधे । तच्छुत्वा ससभास्तारो राजा दानमानादिसत्करैस्तं संपूज्य प्रशस्य सएवानूचानतम इति निश्चित्य साष्टाङ्गं प्रणनामेति ।

अथ श्रीमद्याज्ञवल्क्यमहर्षेरितिवृत्तं किमप्यत्र निर्दिश्यते । तञ्च श्रुति शिरोभागबृहदारण्यकोपनिषदि तृतीयाध्याये एवं निर्दिष्टमासीत्-कदाचन विदेहानां सम्राट्र जनकराजः यज्ञे श्रुतिशास्रोदितवैदिककर्मण्यभिरतो बहुदक्षिणेन नायजत् । तत्र कुरुपाञ्चालवासिनो वैतानिककर्मनिष्णाता राज्ञा निमन्त्रिता ब्राह्मणा