पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

किंचित्प्रास्ताविकम् ।

इह जगदारम्भात्प्राग्जगतो विचारणायां ‘नासदासीन्नो सदासीत्’ ‘तम आसीत्तमसा गृहमग्रे प्रवेकेतं सलिलं सर्वमा इदं’ ‘अम्भः किमासीत् इत्यादिश्रुतिवचोभ्यस्तकगोचवरमेवाखिलं प्रतीयते । ततश्च “को अद्धा वेद क इह प्रवोचत्कुत आा जाता कुत इयं विसृष्टिः ।' इत्यादिविमर्शनोत्तरं ‘यो । अस्याध्यक्षः परमे व्योमन् सो अङ्ग वेद यदि वा न वेद’ इत्येवंरीत्या निर्णयश्च निगममूलक एवेति मानुषप्राणिदुस्तक्र्यमेव कृत्स्नं खलु । अथापि जगदन्त पातिभिर्निजप्ररोहमूलगवेषणं खमतिपरिणामावध्यनुमेयमेव । निर्दिष्टरूपजगद्भावद शायां च ‘स ईक्षत बहुस्यां प्रजायेय’ इति श्रुतेः सर्गादावतक्यैन्द्रजालिकेन सिसृ क्षुणा भगवता स्थावरं जंगमं जगत् धर्माधर्मे च सृष्टाऽखिलव्यवहाराय तत्तच्छब्दानां तेन तेनार्थेन संबन्धं कल्पयित्वा धर्माधर्मप्रतिपादकपदे वेदान्कल्पयित्वा हिरण्यगर्भ दिभ्यः प्रतिपादितास्तैरन्येभ्य इत्येवमुत्तरोत्तरं शब्दार्थप्रतिपत्तिः । एवं परंपरासादित श्रुतिभागा मन्त्रद्रष्टार ईशसृष्टजनतार्थ विशेषतश्च दुःषमानुभावेनापचीयमानमेधायुर्बला दिगुणानामैदंयुगीनमानुषप्राणिनां निःश्रेयसकाङ्गिणः पारिकाङ्गिणोऽखिलव्यवहाराय केवलनिगमानामचारिताथ्र्य मन्वाना नानासूत्रस्मृतीतिहासादीन्धर्मशास्रप्रतिपादका न्निबन्धान्परिकल्पयांबभूवुः ।

तथाच ‘भारतं पञ्चमो वेदः’ इति पञ्चमवेदत्वेन सुप्रतिष्ठितेऽखिलधर्म शास्तरि महाभारते युधिष्ठिरंप्रति भीमसेनवचः-‘धर्ममर्थ च कामं च यथा वद्वदतांवर । विभज्य काले कालज्ञः सर्वान्सेवेत पण्डितः ।' इति । स्मृत्यन्तरेऽपि–‘धर्ममर्थ च कामं च यथाशक्ति न हापयेत् ।' इति । तथा–“न पूर्वाह्ममध्यंदिनापराह्नानफलान्कुर्याद्यथाशक्ति धर्मार्थका मेभ्यः' इति । तत्र निरतिशयानन्दलक्षणस्यात्यन्तिकदुःखनिवृत्तिलक्षणस्य वा भोक्ष सैयैव निरुपधीच्छाविषयत्वात्पुरुषेणाभ्यथ्र्यमानतया मुख्यं पुरुषार्थत्वम् । धर्मादीनां तु तत्साधनमात्रेण । तत्रापि धर्ममात्रं यथायोगं सर्वेषां साधनम् । अतएव प्रवृत्तिनिवृत्त्यात्मकतया द्विविधस्यापि धर्मस्य पुरुषार्थसाधनतोक्ता वृद्धे -प्रवृत्ति लक्षणे धर्मे फलमभ्युद्यो मतः । निवृत्तिसंज्ञके धर्मे फलं निःश्रेयसं मतम् ।' इति । स्कान्देपि–“धमोत्सुखं च ज्ञानं च यस्मादुभयमापुयात् । तस्मात्सर्वं परित्यज्य विद्वान्धर्म समाचरेत् ॥’ इत्यादि परःशतप्रमाण वचोनिचयैर्धर्म एवाखिलस्थितिहेतुत्वेन राद्धान्तितो दरीदृश्यते । तथाच धर्मशब्द निर्णिनीपुः सुगृहीतनामा भगवान् जैमिनिरसुसूत्रत् “चोदनालक्षणोऽर्थो धर्मः” इति । अनेन सूत्रेण धर्मखरूपं तत्प्रमाणं चोच्यते । न तावद्यागापूर्वोभयनिष्ठा धर्मत्वं जातिः, यागस्य क्रियेच्छान्यतररूपतया क्रियात्वेनेच्छात्वेन च संकरात् । अतोऽपूर्व निष्ठेव सुखकारणतावच्छेदिका धर्मत्वं जातिरिति नैयायिकाः । अपूर्वमजानतामपि यागादिकर्तरि धार्मिक इति प्रयोगद्वेदबोधितेष्टसाधनत्वरूपो यागापूर्वोभयनिष्ठोपाधिरेव