पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३०
आचाराध्यायः
याज्ञवल्क्यस्मृतिः

मशक्यत्वात् । अत एतावद्दुत्र विवक्षितं—असन्तः प्रतिलोमजाः सन्तश्चानुलो मजा ज्ञातव्या इति ॥ ९५ ॥

'सवर्णेभ्यः सवर्णासु जायन्त' (९०) इत्यादिना वर्णप्रासैो कारणमुक्तम् इदानीं कारणान्तरमाह -

जात्युत्कर्षों युगे ज्ञेयः संप्तमे पञ्चमेऽपि वा ।
व्यत्यये कर्मणां साम्यं पूर्ववचाधरोत्तरम् ।। ९६ ।।

जातयो मूर्धावसिक्ताद्यास्तासामुत्कषों ब्राह्मणत्वादिजातिप्रासिजत्युत्कर्षों युगे जन्मनि ससमे पञ्चमे अपिशब्दात्षष्ठे वा बोद्धव्यः । व्यवस्थितश्चायं विकल्पः । व्यवस्था च-ब्राह्मणेन शूदायामुत्पादिता निपादी, सा ब्राह्मणेनोढा दुहितरं कांचिजनयति, सापि ब्राह्मणेनोढान्यां जनयतीत्यनेन प्रकारेण पष्टी सप्तमं ब्राह्मणं जनयति । ब्राह्मणेन वैश्यायामुत्पादिता अम्बष्टा । साप्यनेन प्रकारेण पञ्चमी पंष्ठं ब्राह्मणं जनयति । मूर्धावसिक्ताप्यनेन प्रकारेरण चतुर्थी पञ्चमं ब्राह्मणमेव जनयति । एवमुग्रा क्षत्रियेणोढा माहिष्या च यथाक्रमं पष्ट पञ्चमं च क्षत्रियं जनयति । तथा करणो वैश्योढा पञ्चमं वैश्यमित्येवमन्यत्रा प्यूहनीयम् । किंच कर्मणां व्यत्यये वृत्त्यर्थानां कर्मणां विपर्यासे यथा ब्राह्मणो मुंख्या वृत्या अजीवन् क्षात्रेण कर्मणा जीवेदित्यनुकल्पः । तेनाप्यजीवन् वैश्य वृत्या तयाप्यजीवन् शूद्रवृत्या । क्षत्रियोऽपि स्वकर्मणा जीवनार्थेनाजीवन्घृ त्या शूद्रवृत्या वा । वैश्योऽपि स्ववृत्या अजीवन् शूद्रवृत्त्येति कर्मणां व्यत्ययः । तस्मिन्व्यत्यये सति यद्यापद्विमोक्षेऽपि तां वृत्तिं न परित्यजति तदा संप्तमे षष्ट पञ्चमे वा जन्मनि साम्यं यस्य हीनवर्णस्य कर्मणा जीवति तन्समानजातिल्वं भवति । तद्यथा । ब्राह्मणः शूद्रकृत्या जीवंस्तामपरित्यजन् यदि पुत्रमुत्पादयनि सोऽपि तयैव वृत्या जीवन्पुंत्रान्तरमित्येवं परम्परया सप्तमे जन्मनि शूद्रमेव जन यति । वैश्यवृत्या जीवन् षष्ठे वैश्यम् । क्षत्रियवृत्या जीवन् पञ्चमे क्षत्रियम् । क्षत्रियोऽपि शूद्रवृत्या जीवन् षष्ट शूद्रम् । वैश्यवृत्या जीवन् पञ्चमे वैश्यम् । वैश्योऽपि शूद्रवृत्या जीवंस्तामपरित्यजन्पुत्रपरम्परया पञ्चमे जन्मनि शूद्रं जन यतीति । पूर्ववञ्चाधरोत्तरम् । अस्यार्थः-वर्णसंकरे अनुलोमजाः प्रतिलोम जाश्च दर्शिताः । संकीर्णसंकरजाताश्च रथकारनिदर्शनेन दर्शिताः । इदानीं वैर्णसंकीर्णसंकरजाताः प्रदश्यन्ते—अधरे च उत्तरे च अधरोत्तरं यथा मूर्धावसिक्तायां क्षत्रियवैश्यशूद्वैरुत्पादितस्तथाम्बष्ठायां वैश्यशूद्राभ्यां निपाद्यां शूद्रेणोत्पादिता अधराः प्रतिलोमजास्तथा मूर्धावसिक्ताम्बष्टानिषादीषु ब्राह्मणे नोत्पादिताः, माहिष्योग्रयोब्रह्मणेन क्षत्रियेण चोत्पादिताः, करण्यां ब्राह्मणेन


१ पञ्चमेसप्तमेऽपि ख . २ सप्तमं क. ३ ब्राह्मणवृत्या ग. ४ पञ्चमे षष्ठ सप्तमे ख ५ पुनरप्येवं ख. ६ वर्णसंकरजाताः ख.