स्मरणं तत्क्षत्रियादिधर्मप्राप्यर्थ न पुनर्धावसिक्ताद्विजातिनिराकरणार्थ क्षत्रिया दिजातिप्रास्यर्थ वा । अतश्च मूर्धावसिक्तादीनां क्षत्रियादेरुतैरेव दण्डाजिनो पवीतादिभिरुपनयनादिकं कार्यम् । प्रागुपनयनात्कामचारादि पूर्ववदेव वेदितव्यम् ॥ ९१
वैश्याशूद्योस्तु राजन्यान्माहेिष्योग्रौ सुतौ स्मृतौ ।
वैश्यातु करणः शूद्यां विनाखेष विधिः स्मृतः ।। ९२ ।।
वैश्यायां शूद्रायां च विन्नायां राजन्यान्माहिष्योग्रौ यथाक्रमं पुत्रैौ भवतः । वैश्येन शूद्रायां वेिन्नायां करणो नाम पुत्रो भवति । एष सवर्णमूर्धावसिक्तादि संज्ञाविधिः वेिन्नासूढासु स्मृत उक्तो वेदितव्यः । एते च मूर्धावसिक्ता-म्बष्ठ निषाद-माहिष्यो-अ-करणाः षडनुलोमजाः पुत्रा वेदितव्याः ॥ ९२ ॥ प्रतिलोमजानाह
ब्राह्मण्यां क्षत्रियात्सूतो वैश्याद्वैदेहकस्तथा ।
शूद्राञ्जातस्तु चण्डालः सर्वधर्मबहिष्कृतः ।। ९३ ।।
ब्राह्मण्यां क्षत्रियवैश्यशूदैरुत्पादिता यथाक्रमं सूत-वैदेहक-चण्डालाख्याः पुत्रः भवन्ति । तत्र चण्डालः सर्वधर्मबहिष्कृतः ॥ ९३ ॥
क्षत्रिया मागधं वैश्याच्छूद्रात्क्षत्तारमेव च ।
शूद्रादायोगवं वैश्या जनयामास वै सुतम् ।। ९४ ॥
किंच । क्षत्रिया योषित् वैश्यान्मागधं नाम पुत्रं जनयति । सैव शूदात्क्ष त्तारं पुत्रं जनयति । वैश्ययोषिच्छूद्रादायोगावं पुत्रं जनयति । एते च सूत वैदेहक-चण्डाल-मागध-क्षत्रा-ऽयोगावाः षट् प्रतिलोमजाः । एतेषां च वृत्तय औशनसे मानवे च द्रष्टव्याः ॥ ९४ ॥ संकीर्णसंकरजात्यन्तरमाह
माहिष्येण करण्यां तु रथकारः प्रजायते ।
असत्सन्तस्तु विज्ञेयाः प्रतिलोमानुलोमजाः ॥ ९५ ॥
क्षत्रियेण वैश्यायामुत्पादितो माहिष्य । वैश्येन शूद्रायामुत्पादिता करणी तस्यां माहिष्येणोत्पादितो रथकारो नाम जात्या भवति । तस्य चोपनयनादि सर्व कार्य वचनात् । यथाह शङ्खः–‘क्षत्रियवैश्यानुलोमान्तरोत्पन्नो यो रथ कारस्तस्येज्यादानोपनयनसंस्कारक्रिया अश्वप्रतिष्टारथसूत्रवास्तुविद्याध्ययनवृत्तिता च' इति । एवं ब्राह्मणक्षत्रियोत्पन्नमूर्धावसिक्तमाहिष्यादनुलोमसंकरे जात्यन्त रता उपनयनादिप्राप्तिश्च वेदितव्या, तयोद्विजातित्वात् । संज्ञास्तु स्मृत्यन्त रोक्ताद्रष्टव्याः । एतच्च प्रदर्शनमात्रमुक्तम् । संकीर्णसंकरजैातीनामानन्त्याद्वतु
१ रोत्पन्नजो ख. २ द्विजत्वात् क. ३ जातानां क. ग.