पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
गृहस्थधर्मप्रकरणम् ५]
३़१
मिताक्षरासहिता ।

क्षत्रियेण वैश्येन चोत्पादिताः उत्तरे अनुलोमजाः । एवमन्यत्राप्यूहनीयम् । एतदधरोत्तरं पूर्ववदसत्सदिति बोद्धव्यम् ॥ ९६ ॥

इति वर्णजातिविवेकप्रकरणम् ।



अथ गृहस्थधर्मप्रकरणम् ५

श्रौतस्मार्तानि कर्माणि अझिसाध्यानि दर्शयिष्यन् कस्मिन्नौ किं कर्तव्यमित्याह-

कर्म स्मार्त विवाहाग्रौ कुर्वीत प्रत्यहं गृही ।
दायकालाहृते वापि श्रौतं वैतानिकाग्रिषु ॥ ९७ ।।

स्मृत्युक्तं वैश्वदेवादिकं कर्म लौकिकं च यत्प्रतिदिनं पाकलक्षणं तदपि गृहस्थो विवाहास्रौ विवाहसंस्कृते कुर्वीत । दायकाले विभागाकाल आहृते वा ‘वैश्य कुलादग्निमानीय’ इत्यादिनोक्तसंस्कारसंस्कृते ! अपिशब्दात्प्रेते वा गृहपतावाह्यते संस्कृते एव । ततश्च कालत्रयातिक्रमे प्रायश्चित्तीयते । श्रुत्युक्तमग्निहोत्रादिकं कर्म वैतानिकाशिषु आहवनीयादिषु कुर्वीत ॥ ९७ ॥

गृहस्थधमानाह-

शरीरचिन्तां निर्वत्र्य कृतशौचविधिद्विजः ।
प्रातःसंध्यामुपासीत दन्तधावनपूर्वकम् ॥ ९८ ॥

शरीरचिन्तामावश्यैकादिकां ‘दिवासंध्यासु कर्णस्थब्रह्मसूत्र उदङ्मुखः' इत्या छु क्तविधिना निर्वत्यै ‘गन्धलेपक्षयकरम्' इत्यादिनोत्तेन विधिना कृतशौचविधि द्विजः दन्तधावनपूर्वकं प्रातःसंध्यामुपासीत । दन्तधावनविधिश्च–‘कण्ट किक्षीरवृक्षेोत्थं द्वादशाङ्गुलसंमितम् । कनिष्ठिकाग्रवत्स्थूलं पर्वार्धकृतकूर्चकम् ॥ दन्तधावनमुद्दिष्टं जिह्वोलेखनिका तथा ॥’ इति । अत्र वृक्षोत्थमित्यनेन तृणलो टाडुल्यादिनिषेधः । पलाशाश्वत्थादिनिषेधश्च स्मृत्यन्तरोक्तो द्रष्टव्यः । दन्तधा वनमब्बाश्व-“आयुर्बलं यशो वर्चः प्रजाः पशुवसूनि च । ब्रह्म प्रज्ञां च मेधां च त्वं नो धेहि वनस्पते ॥’ इति । ब्रह्मचारिप्रकरणोक्तस्यापि संध्यावन्दनस्य पुनर्वचनं दन्तधावनपूर्वकत्वप्रतिपादनार्थम्, दन्तधावननृत्यगीतादि ब्रह्मचारी वर्जयेदिति तन्निषेधात् ॥ ९८ ॥

हुत्वाग्रीन्सूर्यदैवत्यान्जपेन्मत्रान्समाहितः ।
वेदार्थानधिगच्छेच शास्राणि विविधानि च ॥ ९९ ।।

प्रातःसंध्यावन्दनानन्तरं अझीनाहवनीयादीन् यथोक्तन विधिना हुत्वा औपा-


१ अहृत आहितः. २ तिक्रमेण प्राय. ग. ३ आवश्यकां दिवा. क. ४ नो देहि ग. या० ६