पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/५०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यश्चित्तप्रकरणम् ५] मिताक्षरासहिता २ शत्याद्यपेक्षया भुञ्जीतेत्येतत्पूर्वोक्तचान्द्रायणद्वयादपरं चन्द्रायणम् । अतस्तयो नायं प्राससँख्यानियमः किंतु पञ्चविंशत्यधिकशतद्वयसंख्यैव । मनुना चैते प्रकारा दर्शिताः (११॥२१८-२२०)-अष्टावष्टो समश्नीयात्पिण्डान्मध्यन्दिने स्थिते । नियतात्मा हविष्यस्य यतिचान्द्रायणं चरेत् ॥ चतुरः प्रातरश्रीयात्पि ण्डान्विशः समाहितः । चतुरोऽस्तमिते सूर्ये शिशुचान्द्रायणं चरेत् ॥ यथाकथं चित्पिण्डानां तिस्रोऽशीतीः समाहितः । मासेनाश्चन्हविष्यस्य चन्द्रयैति सलो कताम् ॥’ इति । तथा चत्वारिंशच्छतद्वयन्यूनसंख्याग्राससंपाद्यस्यापि संग्रहा र्थमपरग्रहणम् । यथाह यमः–“त्रींस्त्रीन्पिण्डान्समश्रीयान्नियतात्मा दृढवतः । हविष्यान्नस्य वै मासमृषिचान्द्रायणं स्मृतम्।।' इति । एषु च यतिचान्द्रायण प्रभृतिषु न चन्द्रगत्यनुसरणमपेक्षितम् । अतशिद्दिनात्मकसाधारणेन मासेन नैरन्तर्येण चान्द्रायणानुष्ठाने यदि कथंचितिथिवृद्धिहासवशात् पञ्चम्यादिष्वारम्भो भवति तथापि न दोषः । यदपि सौमायनाख्यं मासव्रतं मार्कण्डेयेनो चक्तम्--'गोक्षीरं सप्तरात्रं तु पिबेत्स्तनचतुष्टयात् । स्तनत्रयात्सप्तरात्रं सप्तरात्रं स्तनद्वयात् ॥ स्तनेनैकेन षड्रात्रं त्रिरात्रं वायुभुग्भवेत् । एतत्सोमायानं नाम व्रतं ल्मषनाशनम् ॥’ इति । स्मृत्यन्तरे ‘सप्ताहं चेत्येतोस्तनमखिलमथ त्रीन्स्त नान्द्रौ तथैकं कुर्यात्खींश्चोपवासान्यदि भवति तदा मासि सोमायनं तत्, इति । तदपि चान्द्रायणकर्मकमेव । हारीतेनापि “अथातश्चान्द्रायणमनुक्रमि ष्यामः इत्यादिना सेतिकर्तव्यताकं चान्द्रायणमभिधायैवमेव सोमायनमित्यति भिधानात् । यत्पुनस्तेन कृष्णचतुर्थीमारभ्य शुक्रुद्वादशीपर्यन्तै सोमय--- मुक्तम् । चतुर्थीप्रभृतिचतुःस्तनेन त्रिरात्रं त्रिस्तनेन त्रिरात्रं द्विस्तनेन त्रिरात्रं एकस्तनेन त्रिरात्रमेवमेकस्तनप्रभृति पुनश्चतुःस्तनान्तं ‘या ते सोम चतुर्थी तनू स्तया नः पाहि तस्यै नमः स्वाज्ञा, या ते सोम पञ्चमी षष्ठीलेयवं यागार्थास्तिथि होमा ऐवं स्तुत्वा एनोभ्यः पूतश्चन्द्रमसः समानतां सलोकतां सायुज्यं च गच्छति इति चतुर्विंशतिदिनात्मकं सोमायनमुक्तं तद्दशक्तविषयम् ॥ ३२४ ॥ कृच्छ्चान्द्रायणसाधारणीमितिकर्तव्यतामाह कुर्यात्रिषवणस्रायी कृच्छू चान्द्रायणं तथा । पवित्राणि जपेत्पिण्डान्गायत्र्या चाभिमत्रयेत् ।। ३२५ ।। कृच्ङ्ग प्राजापत्यादिकं चान्द्रायणं वा त्रिषवणस्लानयुक्तः कुर्यात् । एतञ्च तप्त कृच्छ्व्य तिरेकेण । तत्र ‘सकृत्स्रायी समाहितः' इति मनुना विशेषाभिधानात् । यत्पुनः शङ्गे.कृच्छेषु त्रिषवणस्रानमभिहितम् “त्रिरह्नि त्रिर्निशायां तु सवासा जलमाविशेतू’ इति तद्वशक्तविषयम् । यत्पुनर्वेशम्पायनेन द्वैकालिकै खान मुक्तम्--'रुजानं ; द्विकालमेव स्यात्रिकालं चा द्विजन्मनः’ इति तत्रिषवणस्राना शक्तस्यः वेदितव्यम् ॥ यत्पुनगग्र्येणोक्तम्--'एकवासाश्चरेद्वैक्ष स्नात्वा वासो न पीडयेतू’ इति तदपि शक्तयैव । –“एकवासा आवासा वा लघ्वाशी:स्थण्डि अथ ४८५ १ स्तनान्ते ड. २ एकमास्वा ड