पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/५०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

याज्ञवल्क्यस्मृतिः । चान्द्रायणान्तरमाह [ प्रायश्चित्ताध्याय पदि प्रक्रम्य पूर्वोक्तक्रमेणानुष्ठीयते तदा पिपीलिकावन्मध्ये हसिष्टं भवतीति पिपीलेिकमध्यमेिति कथ्यते । तथाहेि । पूर्वोक्तक्रमेण कृष्णप्रतिपदि चतु र्दश ग्रासान् भुक्त्वा एकैकग्रासापचयेन चतुर्दशीं यावदुञ्जीत । ततश्चतुर्दश्या मेकं ग्रासं ग्रसित्वामावास्यायामुपोष्य शुक्कुप्रतिपद्येकमेव ग्रासं प्राश्रीयात् । तत एकैकोपचयभोजनेन पक्षशेषे निर्वत्र्यमाने पौर्णमास्यां पञ्चदश ग्रासाः संपद्यन्त इति युक्तैव पिपीलिकामध्यता । तथाच वसिष्ठः–‘मासस्य कृष्णपक्षादौ ग्रासानद्याचतुर्दश । ग्रासापचयभोजी सन्पक्षशेषं समापयेत् ॥ तथैव शुक्कुपक्षादौ ग्रासं भुञ्जीत चापरम् । प्रासोपचयभोजी सन्पक्षशेपं समापयेत् ॥' इति । यदा त्वेकस्मिन्पक्षे तिथिवृद्धिहासवशात् षोडशदिनानि भवन्ति चतुर्दश वा तदा ग्रासानामपि वृद्धिहासौ वेदितव्यौ । तिथिवृद्धया पिण्डांश्चरेदिति नियमात् । गौतमेनात्र विशेषो दर्शित –‘अथातश्चान्द्रायणं तस्योक्तो विधिः कृच्छे वपनं च व्रतं चरेत् श्वोभूतां पौर्णमासीमुपवसेत् आप्यायस्व संतेपयांसि नवोनव इति चैताभिस्तर्पणमाज्यहोमो हविपश्चाशुमत्रणमुपस्थानं च चन्द्रमस यद्देवादेवहेडनमिति चतसृभिरराज्यं जुहुयाद्देवकृतस्येति चान्ते समेिद्भिस्त्रिभि ॐभूः भुवः स्वः महः जनः तपः सत्यं यशः श्रीः ऊर्क इट् ओजः तेजः पुरुष धर्मः शिवः इत्येतैप्रसानुमत्रणं प्रतिमत्रं मनसा नः स्वाहेति वा सर्वानेतैरेव आसान्भुञ्जीत - “तङ्गासप्रमाणमास्याधिकारेण चरुभैक्षसत्कुकणयावकशाकपयोऽ दधिघृतमूलफलोदकानि हवींप्युत्तरोत्तरं प्रशस्यानि । पौर्णमास्यां पञ्चदश ग्रासान् भुक्त्वा एकैकापचयेनापरपक्षमश्क्षीयात् । अमावास्यायामुपोष्यैकैकोपचयेन पूर्व पक्ष विपरीतमेकेषामेव चान्द्रायणो मासः’ इति । अत्र ग्रासप्रमाणमास्याविकारे णेति यदुक्तं तद्वालाभिप्रायम् । तेषां शिख्यण्डपरिमितपञ्चदशग्रासभोजना शत्तेः । क्षीरादिहविष्पु शिख्यण्डपरिमितत्वं तु पर्णपुटकादिना संपादनीयम् । तथा कुकुटाण्डान्मलकादीनि तु प्रासपरिमाणानि स्मृत्यन्तरोक्तानि शक्ति विषयाणि शिख्यण्डपरिमाणालुघुत्वात्तेषाम् । यत्पुनरत्र श्वोभूतां पौर्णमासीमुप वसेदित्यत्र चतुर्दश्यामुपवासमभिधाय पौर्णमास्यां पञ्चदशग्रासान्भुक्त्वेत्यादिना द्वात्रिंशदहरात्मकत्वं चान्द्रायणस्योत्तं तत्पक्षान्तरप्रदर्शनार्थ न सार्वत्रिकम् । योगीश्वरवचनानुरोधेन त्रिंशदहरात्मकस्य दर्शितत्वात् । यद्येतत्सार्वत्रिकं स्यात्तदा नैरन्तर्येण संवत्सरे चान्द्रायणानुष्ठानानुपपत्तिः स्यात् । चन्द्रगत्यनुवर्त नानुपपत्तिश्च ॥ ३२३ । यथाकथंचित्पिण्डानां चत्वारिंशच्छतद्वयम् । मासेनैवोपभुञ्जीत चान्द्रायणमथापरम् ॥ ३२४ ।। पिण्डानां चत्वारिंशदधिकं शतद्वयं मासेन भुञ्जीत । यथाकथंचित्प्रतिदिनं मध्याहेऽष्टौ प्रासान्, अथवा नर्त्तदिनयोश्चतुरश्चतुरो वा, अथवैकस्मिश्चतुरोऽपर स्मिन्द्वादश वा त थैकरात्रमुपोष्यापरस्मिन्षोडशा वेत्यादिप्रकाराणामन्यतमेन