सामग्री पर जाएँ

पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रायश्चित्तप्रकरणम् ५ ] मिताक्षरासहिता । ४३७ इन्धनार्थ दुमच्छेद् इत्युपपातकोद्देशे पठितं, हिंसाप्रसङ्गलोभेन तयुत्क्रम यठितमप्यपकृष्य तत्र प्रायश्चित्तमाह वृक्षगुल्मंलतावीरुच्छेदने जप्यमृक्शतम् । स्यादोषधिवृथाच्छेदे क्षीराशी गोऽनुगो दिनम् ।। २७६ ॥ फलदानां आम्रपनसादिवृक्षणां गुल्मादीनां च यज्ञाद्यदृष्टार्थ विना छेदने ऋचां गायत्र्यादीनां शतं जप्तव्यम् । ओषधीनां तु ग्राम्यारण्यानां वृथैव छेदने दिनं कृत्स्रमहर्गवां परिचयर्थमनुगम्यान्ते क्षीरं पिबेदाहारान्तरपरित्यागेन । पञ्चयज्ञार्थे तु न दोषः । एतच फलादिद्वारेणोपयोगेिषु द्रष्टव्यम् । (मनुः ११ । १४२)–“फलदानां तु वृक्षाणां छेदने जप्यमृकूशतम् । गुल्मवलीलतानां च पुष्पितानां च वीरुधाम् ' इति मनुस्मरणात् । दृष्टार्थत्वेऽपि कर्षणाङ्गभूत हलाद्यर्थत्वे न दोष । “फलपुष्पोपगान्पादपान्न हिंस्यात्कर्षणकरणार्थ चोपह न्यात्’ इति वसिष्ठस्मरणात् । यत्र तु स्थानविशेषाद्दण्डाधिक्यं तत्र प्रायश्चित्ता धिक्यमपि कल्पनीयम् । तदुक्तम्—‘चैत्यश्मशानसीमासु पुण्यस्थाने सुरालये । जातदुमाणां द्विगुणो द्मो वृक्षेऽथ विश्रुते ॥’ इति । अयं च ऋकूशतजपो द्विजातिविषयो न पुनः शूद्रादिविषयः । तेषां जपेऽनधिकारात् । अतस्तेषां दुण्डानुसारेण द्विरात्रादिकं कल्पनीयम् । उपपातकमध्ये विशेषतः पाठस्यानर्थक्य परिहारार्थमुपपातकसार्धारणप्रासं प्रायश्चित्तमप्यत्र भवति । तच गुरुत्वाद्भ्या सवेिषयं कल्प्यम् ॥ २७६ ।। पुंश्चलीवानरादिवधप्रायश्चित्तप्रसङ्गात्तदंशनिमेित्तं प्रायश्चित्तमाह पुंश्चलीवानरखरैर्दष्टश्वोष्ट्रादिवायसैः । प्राणायामं जले कृत्वा घृतं प्राश्य विशुद्धयति ॥ २७७ ।। पुंश्चल्याद्यः प्रसिद्धाः एतैर्दष्टः पुमानन्तर्जले प्राणायामं कृत्वा घृतं प्राश्य विशुद्धयति । आदिग्रहणांच्छुगालादीनां ग्रहणम् । यथाह मनुः (११।१९९)-

  • श्वस्मृगालखरैर्दष्टो ग्राम्यैः क्रव्याद्भिरेव च । नाराश्चोष्ट्रवराहैश्च प्राणायामेन

शुद्धयति ॥’ इति । अयै च घृतप्राशो भोजनप्रत्यास्रायो द्रष्टव्यः प्रायश्चित्तानां तपोरूपत्वेन शरीरसंतापनार्थत्वात् । एतदशक्तविषयम् ।–‘श्वसृगालमृगमहिषा जाविकखरकरभनकुलमाजीरैमूषकवबककाकपुरुषदृष्टानामापोहिष्ठेत्यादिभिः स्नानं प्राणायामत्रयं च । ॥’ इति यत्सुमन्तुवचनं तन्नाभेरधःप्रदेश ईषद्दष्टविषयम् । यत्वङ्गिरोवचनम्-*ब्रह्मचारी शुना दष्टस्यहं सायं पिबेत्पयः । गृहस्थश्चह्नि रात्रं तु एकाहं योऽग्निहोत्रवान् ॥ नाभेरूध्वं तु दृष्टस्य तदेव द्विगुणं भवेत् । स्यादेतत्रिगुणं वक्त्रे मस्तके तु चतुर्गुणम् ॥' इति तत्सम्यग्दृष्टविषयम् । क्षत्रिय वैश्ययोस्तु पादपादन्यूनं कल्पनीयम् । शूद्रस्य तु —‘शूद्राणां चोपवासेन शुद्धि । १ दण्डानुसारात् ङ. २ साधारणप्रायश्चित्तं ङ. ३ दष्टश्चोष्ट्रादि ख. ४ मूषिकाप्तव खः