पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४३६ याज्ञवल्क्यस्मृतिः। [ प्रायश्चित्ताध्यायः । इति । यदि कृच्छ्शब्देन मुख्योऽर्थो गृह्यते तर्हि गजे शुके वा विशेषेण प्रजा पत्य एव स्यात् । नच तद्युक्तम् । तपामात्रपरत्व तु दानगुरुलघुभावाकलनया तपसोऽपि गुरुलघुभावो युज्यते । ततश्च गजे द्विमासिकं यावकाशनं शके तूपवास इति । एवमन्यत्रापि दानानुसारेण प्रायश्चित्तं कल्प्यम् ॥ २७४ ॥ फलपुष्पान्नरसजसत्त्वघाते घृताशनम् । किंचाह । उदुम्बरादौ फले मधूकादौ च कुसुमे विरस्थितभक्तसक्त्वाद्यन्ने च रसे गुडादौ च यानि सत्त्वानि प्राणिनो जायन्ते तेषां घाते घृतप्राशनं शुद्धि साधनम् । इदं च घृतप्राशनं भोजनकायें एव विधीयते । प्रायश्चित्तानां तपोरूपत्वात् । दर्शितं च तपोरूपत्वमाङ्गिरसे प्रायश्चित्तपदनिर्वचनव्याजेन प्रायो नाम तपः प्रोक्तं चित्तं निश्चय उच्यते । तपोनिश्चयसंयुक्तं प्रायश्चित्तं तदुच्यते ॥’ इति ॥ प्रतिप्राणिप्रायश्चित्तस्यानन्त्यात् पृष्टाकोटेनापि वक्तुमशक्यत्वात्सामान्येन प्राय किंचित्सास्थिवधे देयं प्राणायामस्त्वनस्थिके ।। २७५ ।। अस्थिमतां कृकलासादिप्राणिनां न्यूनसहस्रसंख्यानां प्रत्येकं वधे किंचित्स्वल्पं धान्यहिरण्यादि देयम् । अनस्थिके त्वेकः प्राणायामः । तत्र किंचिदिति यदा हिरण्यं दीयते तदा पणमात्रम् ‘अस्थिमतां वधे पणो देयः' इति सुमन्तुम रणात् । यदा तु धान्यं देयं तदाष्टमुष्टि देयम् “अष्टमुष्टि भवेत्किचित्’ इति स्मरणात् । एतचानुक्तनिष्कृतिप्राणिवधविषयम् । यत्र तु प्रायश्चित्तविशेष श्रूयते तत्र स एव भवति । यथाह पराशार –‘हंससारसचक्राह्नक्रौञ्चकुकुट धातकः । मयूरमेषौ हत्वा च एकभत्तेन शुद्धयति ॥ मढुं च टिट्टिभं चैव शुकं पारावतं तथा । आडिकां च बकं हत्वा शुद्धयेद्वै नक्तभोजनात् ॥ चाषवाक कपोतानां सारीतित्तिरघातकः । अन्तर्जल उभे संध्ये प्राणायामेन शुद्धयति ।। गृभ्रश्येनविहङ्गानामुलकस्य च घातक । अपकाशी दिनं तिष्ठद्वेौ कालौ मारु ताशनः ॥ हत्वा मूषिकमार्जारसपजगरडुण्डुभान् । प्रत्येकं भोजयेद्विप्रांछोहद ण्डश्च दक्षिणा ॥ सेधाकच्छपगोधानां शशैशल्यकघातकः । वृन्ताकफलगुञ्जाशी अहोरात्रेण शुद्धयति ॥ मृगरोहिवराहाणामविकाबस्तघातने । वृकजम्बूकऋक्षाणां तरक्षणां च धातकः ॥ तिलप्रस्थं त्वसौ दद्याद्वायुभक्षो दिनत्रयम् । गजमेषतुर ङ्गोष्ट्रगचयानां निपातने ॥ प्रायश्चित्तमहोरात्रं त्रिसंध्यं चावगाहनम् । खरवा नरसिंहानां वेित्रकव्याधघातकः ॥ शुद्धिमेति त्रिरात्रेण ब्राह्मणानां च भोजनैः ॥ ' इति ॥ एवमन्येषामपि स्मृतिवचसां देशकालाद्यपेक्षया विषयव्यवस्था कल्प इति हिंसाप्रायश्चित्तप्रकरणम् । १ कृसरं भोजयेत् ङ . २ शशक ड