प्रायश्चित्तप्रकरणम् ५] मिताक्षरासहिता । ४३५ हंसश्येनकपिक्रव्याज्जलस्थलशिखण्डिनः । भासं च हत्वा दद्याद्भामक्रव्यादस्तु वत्सिकाम् ।। २७२॥ किंच । क्रव्यमपच मांसमत्तीति क्रव्याद्याघ्रसृगालादिगविशेषः वानरसाह चर्यात् । तथा हंसश्येनसमभिव्याहारात्कङ्कगृध्रादिः पक्षिविशेषश्च गृह्यते । जल शब्देन जलचरा बकादयो गृह्यन्ते । स्थलशब्देन स्थलचरा बैलाकादयः । शिखण्डी मयूरः । भासः पक्षिविशेषः । शेषाः प्रसिद्धाः । एषां प्रलेयकं वधे गामेकां दद्यात् । अक्रव्यादस्तु हरिणादिमृगान् खञ्जरीटाद्विपक्षिविशेषान्हत्वा वत्सतरीं दद्यात् । तथाच मनुः (११।१३५-१३७)-“हत्वा हंसं बलाकां च बकं बर्हिणमेव च । वानरै श्येनभासौ च स्पर्शयेब्राह्मणाय गाम् ॥ क्रव्यादस्तु मृगान्हत्वा धेर्नु दद्यात्पयस्विनीम् । अक्रञ्यादो वत्सतरीमुझं हत्वा तु कृष्णलम् ॥' इति ॥ २७२ ॥ उरगेष्वायसो दण्डः पण्डके त्रपु सीसकम् । कोले घृतघटो देय उष्ट्र गुञ्जा हर्येऽशुकम् ।। २७३ ।। किंच । सरीसृपेषु व्यापादितेषु अयोमयो दण्डस्तीक्ष्णप्रान्तो देयः । पण्डके नपुंसके व्यापादिते त्रपु सीसकं च माषपरिमितं दद्यात् पलालभारं वा । ‘पण्डर्क हत्वा पलालभारं त्रपु सीसकं वा दद्यात्’ इति स्मृत्यन्तरदर्शनात् । यद्यपि
- पण्डको लिङ्गहीनः स्यात्संस्कारार्हश्च नैव सः' इति देवलवचनेन सामान्येनैव
स्रीपुंलिङ्गरहितो निर्दिष्टस्तथापि न गोब्राह्मणरूपस्येह विवक्षा । षेधस्य जात्यवच्छेदेन प्रवृत्तः लिङ्गविरहिणि च पण्डे ' जातिसमवायाविशेषात्तः न्निमित्तमेव लघुप्रायश्चित्तमुक्तम् । तस्मान्मृगपक्षिण एव विवक्षिताः । मृगपक्षि समभिव्याहाराञ्च । कोले सूकरे व्यापादिते घृतकुम्भो देयः । उन्ने गुञ्जा देया । वाजिनि विनिपातितेंऽशुकं वस्त्रं देयम् । तथाच मनुः (११।१३३)- “आभ्र काष्णर्णायसीं दद्यात्सर्प हत्वा द्विजोत्तमः । पलालभारकं षण्ढे सैसकं चैव माषकम् ॥’ इति ॥ २७३ ॥ तित्तिरौ तु तिलद्रोणं गजादीनामशत्रुकुवत् । दानं दातुं चरेत्कृच्छ्मे कैकस्य विशुद्धये ।। २७४ ।। किंच । तित्तिरौ पतत्रिणि व्यापादिते तिलद्रोणे दद्यात् । द्रोणशब्दश्च परि माणविशेषवचनः । ‘अष्टमुष्टि भवेत्किचित्किंचिदष्टौ तु पुष्कलम् । पुष्कलानि तु चत्वारि आढकः परिकीर्तितः ॥ चतुराढको भवेद्रोण इत्येतन्मानलक्षणम् ॥ इति स्मरणात् ॥ पूर्वोक्तानां गजादीनां व्यापादने निर्धनत्वेन नीलवृषपञ्चका दिदानं कर्तुमशकुवन् प्रलेयेकं कृच्छं चरेद्विशुद्धयर्थम् । कृच्छूशब्दश्चात्र लक्षणया कुशसाध्ये तपोमात्रे द्रष्टव्यः । तपांसि च गौतमेन दार्शतानि–‘संवत्सरः षण्मासाश्चत्वारस्रयो द्वावेकश्चतुर्विंशत्यहो द्वादशाहः षडहरूयहोऽहोरात्र इति कालः । एतान्येवानादेशे विकल्पेन क्रियेरन्नेनसेि गुरुणि गुरूणि लघुनि लघूनि १ बकादयः ख