सामग्री पर जाएँ

पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  • ४३४

याज्ञवल्क्यस्मृतिः । त्वादिगुणयोगिनीनां कामतो व्यापादने द्रष्टव्यम् । अकामतस्तु सर्वत्रा [ प्रायश्चित्ताध्यायः इति स्त्रीवधप्रायश्चित्तप्रकरणम् । हिंसाप्रायश्चित्तप्रसङ्गात्प्रकीर्णकपदाभिधेयानुपपातकप्राणिवधेऽपि २७० अस्थिमतां सहस्र तु तथानस्थिमतामनः ।। २६९ ।। अस्थिमतां प्राणिनां कृकलासप्रभृतीनामनुक्तनिष्कृतीनां सहस्त्रं हत्वा अन स्थिमतां च यूकामत्कुणर्दशमशकप्रभृतीनामनः शकटं तत्परिपूर्णमात्रं हत्वा शूद्भहत्याव्रतं षाण्मासिकं प्राकृतं ब्रह्मचर्य चरेद्दशधेनूर्वा दद्यात् । सहस्रमिति यरिमाणनेियमात्ततोऽधिकवधे त्वतिरिक्त कल्प्यम् । अर्वाक्पुन:प्रत्येकंवधे तु किंवि. त्सास्थिवधे देयं प्राणायामस्त्वनस्थिके’ इति वक्ष्यति । तथानस्थिमतामन इत्ये तञ्च क्षेोदिष्टजन्तुविषयम् । स्थविष्ठानस्थिधुणादिजन्तुवधे तु ‘कृमेिकीटवयो। हत्वा' इत्यादिना मलिनीकरणीयान्यभिधाय “मलिनीकरणीयेषु तसः स्याद्यवक प्रायश्चि मार्जारगोधानकुलमण्डूकांश्च पतत्रिणः । हत्वा त्र्यहं पिबेत्क्षीरं कृच्छ् वा पादिकं चरेत् ।। २७० ।। किंच । मार्जारादयः प्रसिद्धाः पतत्रिणश्चाषकाकोलकास्तान् हत्वा त्रिरात्रं पयः पिबेत् पादकृच्ङ्गं वाचरेत् । वाशब्दद्योजनगमनादिकं वा कुर्यात् ॥ यथाह्व मनुः (११।१३२)-पयः पिबेत्रिरात्रं वा योजनं वाध्वनो व्रजेत् । अंपः स्पृशे त्स्रवन्त्यां वा सूतं वाब्दैवतं जपेत् ॥’ इति । इदं च प्रत्येकवधविषयम् । समुदि तवधे तु ( ११।१३१ )–“मार्जारनकुलौ हत्वा चार्ष मण्डूकमेव च । श्वगोधी लककाकाँश्च शूद्रहत्यावतं चरेत् ॥' इति मनूतं षाण्मासिकं द्रष्टव्यम् ॥ यत्पुन वसिष्ठनोक्तम्-‘श्वमार्जारनकुलमण्डूकसर्पदहरमूषिकान्हत्वा कृच्छू द्वादशरात्रं चरेकिंचिद्दद्यात्' इति तत्कामतोऽभ्यासविषयं वेदितव्यम् । दहरोऽल्पमूषक ३छुच्छुन्दरी वा गजे नीलवृषाः पञ्च शुके वत्सो द्विहायनः । खराजमेषेषु वृषो देयः क्रौञ्चे त्रिहायनः ॥ २७१ ।। किंच । दन्तिनि व्यापादिते पञ्च नीलवृषा देयाः । शुके पक्षिणि द्विवर्षों वत्सः । रासभच्छागैडकेषु व्यापादितेषु प्रत्येकमेको वृषः । क्रौञ्चे पक्षिणि त्रिद्वा यनो वत्सः । देय इति सर्वत्रानुषङ्गः ॥ मनुनाप्यत्र विशेष उक्तः (११।१३६) ‘वासो दद्याद्धयं हत्वा पञ्च नीलान्वृषान्गजम् । अजमेषावनङ्काहं खरं हत्वैकहा यनम् ॥’ . इति ॥ २७१ ॥