पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रायश्चित्तप्रकरणम् ५ ] मिताक्षरासहिता । ४३३ मूर्धावसिक्तादीनां वधे एतत्प्रायश्चित्तजातं न भवति । तेषां क्षत्रियादित्वां भावात् । अतो दण्डानुसारेणैव तद्वधे पूर्वोक्तत्रतकदम्बस्य वृद्धिहासौ कल्पनीयौ । दण्डस्य च वृद्धिहासैौ दर्शितौ–‘दण्डप्रणयनं कार्य वर्णजात्युत्तराधरे’ इत्यत्र ॥ २६६ ॥ २६७ ॥ इति क्षत्रियादिवधप्रायश्चित्तप्रकरणम् । स्रीवधे प्रायश्चित्तमाह दुर्घत्तब्रह्मविट्क्षत्रशूद्रयोषाः प्रमाप्य तु । दृतिं धनुर्बस्तमविं क्रमाद्दद्याद्विशुद्धये ।। २६८ ।। ब्राह्मणादिभार्या दुत्ताः स्वैरिणीः प्रमाप्य क्रमेण दृतिं जलाधारचर्मकोश धनुः कार्मुकं बस्तं छागं अविं मेषं च विशुद्धये दद्यात् । इदं च प्रातिलोम्येना न्त्यजातिप्रसूतानां ब्राह्मण्यादीनामकामतो वधविषयम् । कामतस्तु ब्रह्मगर्भ आहं-प्रतिलोमप्रसूतानां स्त्रीणां मासावधिः स्मृतः । अन्तरप्रभवानां च सूतादीनां चतुषिट् ॥’ इति । ब्राह्मण्यादिवधे षण्मासाः क्षत्रियायाश्चत्वारो वैश्याया द्वावेित्येवं यथार्हतयान्वयः । यदा तु वैश्यकर्मणा जीवन्तीं व्यापादयति तदा किंचिद्देयम् । ‘वैशिकेन किंचित्’ इति गौतमस्मरणात् । वैशेिकेन वैश्य कर्मणा जीवन्त्यां व्यापादितायां किंचिदेव देयं तच जलम् । ‘कोशं कूपे च विप्रे वा ब्राह्मण्याः प्रतिपादयेत् । वधे धेनुः क्षत्रियाया बस्तो वैश्यावधे स्मृतः ॥ शूद्रायामावेिकं वैश्यां हत्वा दद्याज्जलं नरः ॥’ इत्यङ्गिरःस्मरणात् । यदा पुन क्षत्रियादिभिः प्रातिलोम्येन व्यभिचरिता ब्राह्मणाद्या व्यापाद्यन्ते तदा गोवधः प्रायश्चित्तानि यथार्ह योज्यानि ॥ २६८ ॥ ईषद्धद्यभिचरितब्राह्मण्यादिवधे विशेषमाह अप्रदुष्टां स्त्रियं हत्वा शूद्रहत्याव्रतं चरेत् । यदा त्वप्रकर्षेण दुष्टामीषच्यभिचारिणीं ब्राह्मण्यादिकां व्यापादयति तदा शूद्रहत्यात्रतं षाण्मासिकं कुर्यात् । यद्वा दशधेनूर्दद्यात् । इदं. च षाण्मासिक मकामतो ब्राह्मण्या व्यापादने, क्षत्रियावधे तु कामकृते द्रष्टव्यम् । कामतो वैश्यावधे दशधेनूर्दद्यात् । कामतः शूद्रावधे तु उपपातकसाधारणप्राप्त मासं पञ्चगव्याशनम् । यदा तु कामतो ब्राह्मणीं व्यापादयति तदा द्वादशमासिकम् । क्षत्रियादीनां त्वकामतो व्यापादने त्रैमासिकसार्धमासिकसार्धद्वाविंशत्यहानि । यथाह प्रचेताः–“अनृतुमतीं ब्राह्मणीं हत्वा कृच्छूाब्दं षण्मासान्वेति । क्षत्रियां हत्वां षण्मासान्मासत्रयं वेति । वैश्यां हत्वा मासत्रयं सार्धमासं वेति । शूद्राँ हत्वा सार्धमासं सार्धद्वाविंशत्यहानि वा'इति ॥ यत्तु हारीतेन षङ्कर्षाणि राजन्ये प्राकृतं ब्रह्मचर्य त्रीणि वैश्ये सार्ध शूद् इति प्रतिपाद्योत्तं ‘क्षत्रियवङ्गाह्मणीषु वैश्य वत्क्षत्रियायां शूद्वद्वैश्यायां शूद्वाँ हत्वा नवमासान्’ इत्युक्तं तदपि कर्मसांधन १ व्यापादितास्तदा ड