सामग्री पर जाएँ

पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४३८ याज्ञवल्क्यस्मृतेि [प्रायश्चित्ताध्यायं दनेन वा पुनः । गां वा दद्यादृषं चैकं ब्राह्मणाय विशुद्धये ॥’ इति वृहदङ्गिर सोत्तं द्रष्टव्यम् । यत्तु वसिष्ठवचनम्--ब्राह्मणस्तु शुना दृष्टो नदीं गत्वा समुद्रगाम् । प्राणायामशतं कृत्वा घृतं प्राश्य विशुद्धयति ॥’ इति तदुत्तमाङ्गदंश विषयम् ॥ स्त्रीणां तु-ब्राह्मणी तु शुना दृष्टा जम्बुकेन वृकेण वा । उदित प्रहनक्षत्रं दृष्टा सद्यः शुचिर्भवेत् ॥' इति पराशरोत्तं द्रष्टव्यम् । कृच्छादिबत. स्थायाः पुनस्तेनैव विशेषो दर्शित –“त्रिरात्रमेवोपवसेच्छुना दष्टा तु सुत्रेता । सघृतं यावकं भुक्त्वा बतशेषं समापयेत् ॥’ इति । रजस्वलायामपि विशेष पुलस्त्येन दर्शित –‘रजस्वला यदा दष्टा शुना जम्बुकरासभै । पञ्चरात्रं निराहारा पञ्चगव्येन शुद्धयति ॥ ऊध्र्व तु द्विगुणं नाभेर्वक्रे तु त्रिगुणं तथा । चतुर्गुणं स्मृतं मूर्हि दष्टेऽन्यत्राप्युतिर्भवेत् ।।' इति ! अन्यत्राऽरजस्वलावस्थायाम् । यस्तु श्धादिभिघ्रौणादिनोपहन्यते तस्य शातातपेन विशेष उक्तः–‘शुना घ्राणा वलीढस्य नखैर्विलिखितस्य च । अद्भिः प्रक्षालनं शौचवमग्निा चोपचूलनैम्’ इति । उपचूलनं तापनम् ॥ यदा तु श्वादिदंशशास्रघातादिजनितत्रणे कृमय उत्पद्यन्ते तदा मनुना विशेष उक्त –‘ब्राह्मणस्य ब्रवणद्वारेर पूयशोणितसंभवे । कृमिरुत्प इद्यते यस्य प्रायश्चित्तं कथं भवेत् ॥ गवां मूत्रपुरीषेण त्रिसंध्यं स्रानमाचरेत् । त्रिरात्रं पञ्चगव्याशी त्वधोनाभ्या विशुद्धयति ॥ नाभिकण्ठान्तरोद्भते ब्रणे चोत्प चद्यते कृमिः । षड्त्रं तु त्र्यहं पञ्चगव्याशनमिति स्मृतम् ॥' तत्र श्धादिदंशवणे तद्दे शप्रायश्चित्तानन्तरमिदं कर्तव्यम् । शस्त्रादिजनितत्रणे त्वेतदेव, त्र्यहं पञ्चगव्या शनादिकमिति शेषः । क्षत्रियादिषु तु प्रतिवर्ण पादपादहासः कल्पनीयः ॥२७७॥ शारीरत्वग्धातुविच्छेदकदंशप्रायश्चित्तप्रसङ्गाच्छारीरचरमधातुविच्छेदकस्कन्दने यन्मेऽद्य रेत इत्याभ्यां स्कनं रेतोऽभिमन्त्रयेत् । स्तनान्तरं ध्रुवोर्मध्यं तेनानामिकया स्पृशेत् ।। २७८ ।। यदि कथंचेित्स्त्रीसंभोगमन्तरेणापि हठाचरमधातुर्विस्पृष्टस्तदा तत्स्कन्द्रं रेती यन्मेऽद्य रेतः पृथिवीमस्कन् पुनर्मामैत्विन्द्रियमित्याभ्यां मत्राभ्यामभिमत्रयेत् । तेन चाभिमत्रितेन रेतसा स्तनयोर्भुवोश्च मध्यमुपकनिष्ठिकया स्पृशेत् ॥ अन्ये तु स्कन्नस्य रेतसोऽशुचित्वेन स्पर्शकर्मण्ययोग्यत्वातेनेत्यनामिकासाहचर्यात्स्व बुद्धिस्थाङ्गुष्ठपरत्वेन व्याचक्षते । तेनाङ्गुष्ठेनानामिकया चेति अङ्गुष्ठपदग्रहणे वृत्त भङ्गप्रसङ्गात्तेनेति निर्दिष्टमिति । तदसत् । अङ्गुष्टस्याबुद्धिस्थत्वात् । नच शब्द निहितपरित्यागेनार्थाडुद्धिस्थस्यान्वयो युक्तः । तदुक्तम्—‘गम्यमानस्य चार्थस्य नैव दृष्टं विशेषणम् । शब्दान्तरैर्विभक्तया वा धूमोऽयं ज्वलतीति वत् ॥' इति । नच रेतसोऽशुचित्वेन स्पशयोग्यत्वम् । विधानादेव प्रायश्चित्तार्थरूपस्पर्श योग्य त्वमवगम्यते प्रायश्चित्तरूपपान इव सुरायाः । इदं च प्रायश्चित्तं गृहस्थस्यैवा १ विशुद्धयति ङ२ सत्रता ख. ३ चोपकूलनं. ४ षड्रात्रं च तदा प्रोक्तं प्राजापत्यं