पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४१८ याज्ञवल्क्यस्मृतिः । [ प्रायश्चित्ताध्यायः धानात्, गोषु ब्राह्मणसंस्थास्विति दण्डभूयस्त्वदर्शनाञ्च । वैश्यसंबन्धि न्यास्तु तादृग्विधे व्यापादने मासमतिकृच्द्र कुर्यात् । अतिकृच्छे त्वाद्ये त्रिरात्र त्रये पाणिपूरान्नभोजनमुक्तम् । अन्ये त्रिरात्रेऽनशनम् । अतोऽतिकृच्छूधर्मेण मासत्रते क्रियमाणे षड्रात्रमुपवासो भवति । चतुर्विशत्यहे च पाणिपूरान्नभो जनम् । ततश्च कृच्छ्प्रत्यान्नायकल्पनया किंचेिन्यूनं धनुपञ्चकं भवतीति पूर्व स्माद्भतद्वयालुधिष्ठत्वेन वैश्यस्वामिकगोवधविषयता युक्ता । तादृश एव विषये शूद्रस्वामिकगोहत्यायां मासं प्राजापत्यत्रततं द्वितीयम् । तत्र च सार्धप्राजापत्यद्व यात्मकेन प्रत्याम्रायेन किंचिदधिकं धेनुद्वयं भवतीति पूर्वेभ्यो लघुतमत्वाच्छू द्रविषयतोचिता । अथ चैतत्प्रायश्चित्तचतुष्टयं साक्षात्कर्वनुग्राहकप्रयोजका नुमन्तृषु गुरुलघुभावतारतम्यापेक्षया पूर्वोक्त एव विषये योजनीयम् । यत्त वैष्णवं त्रतत्रयम्–‘गोश्वस्य पञ्चगव्येन मासमेकं पलत्रयम् । प्रत्यहं स्यात्पराको वा चान्द्रायणमथापि वा।।' इति, यञ्च काश्यपीयम्--'गां हत्वा तचर्मणा प्रावृतो मासं गोठेशयस्त्रिषवणस्रायी नित्यं पञ्चगव्याहारः’ इति, यच्च शातातपीयम्---

  • मासं पञ्चगव्याहारः’ इति, तत्पञ्चकमपि याज्ञवल्क्यीयपञ्चगव्याहारसमानविष

यम् । यञ्च शङ्खप्रचेतोभ्यामुक्तम्-‘गोश्वः पञ्चगव्याहारः पञ्चविंशतिरात्रमुः पवसेत्सशिखं वपनं कृत्वा गोचर्मणा प्रावृतो गाश्चानुगच्छन् गोठेशयो गां च दद्यात्’ इति । एतच याज्ञवल्क्यीयमासातिकृच्छ्त्रतसमानविषयम् । दद्यात्रि रैरात्रं चोपोष्य इत्येतद्विषयं वात्यन्तगुणिनो हन्तुर्वेदितव्यम् । अत्रैव विपये पञ्चग व्याशक्तस्य तु द्वितीयं काश्यपीयं ‘मासं पञ्चगव्येनेति प्रतिपाद्य “षष्ठे काले पयोभक्षो वा गच्छन्तीष्वनुगच्छेत्तासु सुखोपविष्टासु चोपविशेन्नातिष्ठवं गच्छेन्ना तिविषमेणावतारयेन्नाल्पोदके पाययेदन्ते ब्राह्मणान्भोजयित्वा तिलधेर्नु दद्यात् इति द्रष्टव्यम् । अत्राप्यशक्तस्य ‘गोत्रो मासं यवागू प्रसृतितन्दुलशतं भुञ्जानो गोभ्यः प्रियं कुर्वन् शुद्धयति’ इति पैठीनसिनोत्तं वेदितव्यम् । यत्तु सौमन्तम्-‘गोश्वस्य गोप्रदानं गोठे शयनं द्वादशरात्रं पञ्चगव्याशनं गवानु गमनं च' इति, यच्च संवतनोक्तम्—‘सत्कुयावकभैक्षाशी पयो दधि घृतं सकृत् । एतानि क्रमशोऽश्रीयान्मासार्ध सुसमाहितः ॥ ब्राह्मणान्भोजयित्वा तु गां दद्यादात्मशुद्धये ॥’ इति, यच्च बार्हस्पत्यम्–‘द्वादशरात्रं पञ्चगव्याहारः इति, तत्रितयमपि याज्ञवल्क्यीयमासप्राजापत्येन समानविषयं, मृतकल्पगोहत्या विषयं वा, विषमप्रदेशंत्रासेन जनितव्याधितो मरणविषयै वा वेदितव्यम् । तदिदं सर्व प्रागुक्तमकामविषयम् । यदा पुनरीदृग्विधामविशिष्टविप्रस्वामेिकाम विशिष्टां गां कामतः प्रमापयति तदा मनुना मासं यवागूपाने, मासद्वयं हवि रुयेण चतुर्थकालभोजनं, मासत्रयं वृषभैकादशगोदानयुक्तं शाकादिना वर्तन मिति व्रतत्रितयमान्ना तम् । यथाह (११।१०८–११६)–“उपपातकसंयुक्ती गोत्रो मासं यवान्पिबेत् । कृतवापो वसेद्भोष्ट चर्मणाणे संवृतः । चतुर्थकाल २ प्रदेशाशनजनित ड. २ तेन