पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रायश्चित्तप्रकरणम् ५ ] मिताक्षरासहिता ४१७ म्यकृच्छूाभिप्रायम् । अतः स्रीशशूद्रयोः प्रतिलोमजानां च त्रैवर्णिकवद्रताधिकार इति सिद्धम् । यत्तु गौतमवचनम्–‘प्रतिलोमा धर्महीनाः’ इति, तदुपनय नादिविशिष्टधर्माभिप्रायम् ॥ २६ ॥ ६२ इति पञ्चमहापातकप्रायश्चित्तप्रकरणम् महापातकादिपञ्चकमध्ये महापातकातिपातकानुपपातकप्रायश्चित्तान्युक्त्वाधुः नोपपातकप्रायश्चित्तानि व्याचक्षाणः पाठक्रमप्रासं गोवधप्रायश्चित्तं तावदाह पञ्चगव्यं पिबेदोऽो मासमासीत संयतः । गोष्ठेशयो गोऽनुगामी गोप्रदानेन शुद्धयति ॥ २६३ ॥ कृच्छं चैवातिकृच्छं च चरेद्वापि समाहितः । दद्यात्रिरात्रं चोपोष्य वृषभैकादशास्तु गाः ।। २६४ ।। गां हन्तीति गोन्नः । मूलविभुजादित्वात्कप्रत्ययः । असौ मासं समाहित आसीत । किं कुर्वन् । पञ्च च तानि गव्यानि गोमूत्रगोमयक्षीरदधिघृतानि यथा विधि मिश्रितानि पिबन्, आहारान्तरपरित्यागेन भोजनकार्ये तस्य विधानात् । तथा गोष्टशयः । प्रासशयनानुवादेन गोष्टविधानाद्दिवा च स्वापप्रतिषेधाद्रात्रौ गोशालायां शयानः । गा अनुगच्छति तदस्य व्रतमिति गोऽनुगामी । व्रते णिनिः । अतश्च यासां गोष्ठ शेते सन्निधानात्ता एव गाः प्रातर्वनं विचरन्तीरनु गच्छेत् । अनुगच्छेदिति वचनाद्यदा ता गच्छन्ति तदैव स्वयमनुगच्छेत् । यदा तु तिष्ठन्त्यासते वा तदा पश्चाद्भमनस्याशक्यकरणत्वात्स्वयमपि तिष्ठेदासीत वेति गम्यते । अनुगमनविधानादेव ताभिः सायं गोष्ठं वजन्तीभिः सह गोष्ठप्रवेशोऽ यर्थसिद्धः । एवं कुर्वन्मासान्ते गोप्रदानेन एकां गां दत्त्वा तावता शास्त्रार्थस्य संपत्तेगोहत्यायाः शुद्धयतीत्येकं ब्रतम् । मासं गोष्ठशयो गोऽनुगामीत्यनुवर्तते । पञ्चगव्याहारस्य तु निवृत्तिः कृच्छविधानादेव । अतश्च मासं निरन्तरं कृच्छ् समाहितश्चरेदित्यपरम् । अतएव जाबालेन मासप्राजापत्यस्य पृथक् प्रायश्चित्तत्व मुक्तम्-*प्राजापत्यं चरेन्मासं गोहन्ता चेदकामतः । गोहितो गोऽनुगामी स्याद्भोप्रदानेन शुद्धयति ॥’ इति । अतिकृच्छं वा तथैव समाचरेदित्यन्यत् । कृच्छातिकृच्छूयोर्लक्षणमुत्तरत्र वक्ष्यते । अथवा त्रिरात्रमुपवासं कृत्वा वृषभ एकादशो यासां गवां ता दद्यादिति बतचतुष्टयम् । तत्राकामकृते जातिमात्र ब्राह्मणस्वामिकगोमात्रवधे उपवासं कृत्वा वृषभैकादशगोदानसहितश्चिरात्रोप वासो द्रष्टव्यः । विशिष्टस्वामिकाया विशिष्टगुणवत्याश्च वधे गुरुप्रायश्रित्तस्य वक्ष्यमाणत्वात् । क्षत्रियसंबन्धिन्यास्तु तादृग्विधे व्यापादने मासं पञ्चगव्याशित्वं प्रथमं प्रायश्चित्तम् । अत्र मासपञ्चगव्याशनस्यातिस्वल्पत्वान्मासोपवासतुल्यत्वम् । ततश्च षङ्गिः षङ्गिरुपवासैरेकैकप्राजापत्यकल्पनया पञ्चकृच्छूाणां प्रत्यान्नायेन पञ्च धेनवो मासान्ते च दीयमाना गौरेकेति षट् धेनवो भवन्तीति वृषभैकादश गोदानसहितत्रिरात्रतालघीयस्त्वम् । कथं पुनब्रह्मणगवीनां गुरुत्वम् । देवब्राह्मणराज्ञां तु विज्ञेयं द्रव्यमुत्तमम्’ इति नारदेन तद्रव्यस्योत्तमत्वाभि