पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रायश्चित्तप्रकरणम् ५ ] मिताक्षरासहिता । मश्रीयादक्षारलवणं मितम् । गोमूत्रेण चरेत्स्रानं द्वौ मासौ नियतेन्द्रियः । दिवानुगच्छेत्ता गास्तु तिष्ठन्ध्र्व रजः पिबेत् ! शुश्रूषित्वा नमस्कृत्वा रात्रै वीरासनं वसेत् ॥ तिष्टन्तीष्वनुतिष्ठतु व्रजन्तीष्वप्यनुव्रजेत् । आसीनासु तथा सीनो नियतो वीतमत्सर । आतुरामभिशस्तां वा चौरव्याघ्रादिभिर्भयैः । पतितां पङ्कलझाँ वा सैवोपायैर्विमोचयेत् ॥ उप्णे वर्षति शीते वा मारुते वानि वा भृशम् । न कुर्वीतात्मनस्राणं गोरकृत्वा तु शक्तितः ॥ आत्मनो यदि वान्येषां गृहे क्षेत्रेऽथवा खले । भक्षयन्तीं न कथयेत्पिबन्तं चैव वत्मकम् ॥ अनेन विधिना यस्तु गोो गा अनुगच्छति । स गोहत्याकृतं पापं त्रिभिर्मासैव्र्यपोहति । वृषभैकादशा गाश्च दद्यात्सुचरितव्रतः । अविद्यमाने सर्वस्वं वेदविन्द्यो निवेद् येत् ।।' इति । एतत्रितयं याज्ञवल्क्यीयमासप्राजापत्यमाम्पञ्चगव्याशनवृषभका दशगोदानयुक्तत्रिरात्रोपवासरूपत्रतत्रितयविषयं यथाक्रमेण द्रष्टव्यम् ॥ यत्व ङ्गिरसा मानवेतिकर्तव्यतायुक्तं त्रैमासिकमभिधायाधिकमभिहितम्-*अक्षार लवर्ण रुक्षं षष्ठ कालेऽस्य भोजनम् । गोमतीं वा जपेद्विद्यामोङ्कारं वेदमेव च । व्रतवद्धारयेद्दण्डं समन्नां चैव मेखलाम् ॥” इति, तन्मानवविषयम् । एवं पुष्टिता रुण्यादिकिंचिदुणातिशययोगिन्यां द्रष्टव्यम् अतिबालामतिकृशामतिवृद्धां रोगिणीम् । हत्वा पूर्वविधानेन चरेदधं ब्रतं द्विजः ।।' इति पुष्टितारुण्यादिरहि तायां गव्यर्धप्रायश्चित्तदर्शनात् । यदा तु याज्ञवल्क्यीयमासातिकृच्छ्त्रतनिमित्त भूतां गामविशिष्टस्वामिकां जातिमात्रयोगिनीं कामतो व्यापादयति तदा ‘विहितं यद्कामानां कामात्तद्विगुणं चरेत्’ इति न्यायेन पूर्वोक्तमेवाकामविहितं मासा तिकृच्छ्व्रतं द्विगुणं कुर्यात् । यत्तु हारीतेन–‘गोन्नस्तचमौध्र्ववालं परि धाय' इत्यादिना मानवीमितिकर्तव्यतामभिधायोक्तम्-*वृषभैकादशाश्च गा दत्वा त्रयोदशे मासे पूतो भवति' इति तत्सवनस्थश्रोत्रियगोवधे अकामकृते द्रष्टव्यम् । यत्तु वसिष्ठन–‘गां चेद्धन्यात्तस्याश्चर्मणाद्रेण परिवेष्टितः षण्मासान् कृच्छूतसकृच्छूावातिष्ठेदृपभवेहतौ दद्यात्’ इति षाण्मासिकं कृच्छूतसकृच्छ्ानुष्ठान मुक्तम्, यदपि देवलेब–“गोन्नः षण्मासांस्तचर्मपरिवृतो गोवजनिवासी गोभि रेव सह चरन् प्रमुच्यते” इति, तत् द्वयमपि हारीतीयेन समानविषयम् । तत्रैव कामकारकृते कात्यायनीयं त्रैवार्षिकम्–‘गोन्नस्तचर्मसंवीतो वसेद्भो ठेऽथवा पुनः । गाश्चानुगच्छेत्सततं मौनी वीरासनादिभिः ॥ वर्षशीतातप शवह्निपङ्कभयार्दितः । मोक्षयेत्सर्वयखेन पूयते वत्सरैस्त्रिभिः ॥’ इति द्रष्ट व्यम् । यच्च शशाङ्क त्रैवार्षिकम्—‘पादं तु शूद्वहत्यायामुदक्यागमने तथा । गोवधे च तथा कुर्यात्परस्रीगमने तथा ॥” इति, तदपि कात्यायनीयव्रतसमान विषयम् ॥ यत्तु यमेनाङ्गिरसीमितिकर्तव्यतामभिधाय ‘गोसहस्त्रं शतं वापि दद्यात्सुचरितव्रतः । निवेदयेत् ' गोसहस्र अविद्यमाने सर्वस्वं वेदविन्द्यो ॥इति युक्त गोशतयुक्तं च द्वैमासिकं बतद्वयमभिहितम्, तत्र यदा सवनस्थश्रोत्रिया १ अझि. ४ १९ २ सर्वप्राणैर्विमोषयेत ड