पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१४
[ आचाराध्यायः
याज्ञवल्क्यस्मृतिः ।

सहैकशरीरारम्भकत्वेन । एवं यत्र यत्र सपिण्डशब्दस्तत्र तत्र साक्षात्परम्परया वा एकशरीरावयवान्वयो वेदितव्यः । यद्येवं मातामहादीनामपि ‘दशाहं शावमा शौचं सपिण्डेषु विधीयते' इत्यविशेषेण प्राभोति । स्यादेतत् यदि तत्र ‘प्रत्ता नामेितरे कुर्युः' इत्यादिविशेषवचनं न स्यात् । अतश्च सपिण्डेपु यत्र विशेपवचनं नास्ति तत्र ‘दशाहं शावमाशौचम्’ इत्येतद्वचनमवतिष्ठते । अवश्यं चैकशरीररावयवान्वयेन सापिण्डयं वर्णनीयम् । “आत्मा हेि जज्ञ आत्मनः' इत्यादिश्रुतेः । तथा ‘प्रजामनु प्रजायसे' इति च । ‘स एवायं विरूढः प्रत्यक्षेणोपलभ्यते ' इत्यापस्तम्बवचनाञ्च । तथा गर्भपनिषदि–‘एतत् पाट्कोशिकं शरीरं त्रीणि पितृतस्रीणि मातृतोऽस्थिस्रायुमज्जानः पितृतस्त्वङासरुधिराणि मातृतः' इति तत्रतत्रावयवान्वयप्रतिपादनात् । निर्वाप्यपिण्डान्वयेन तु सापिण्डये(ऽङ्गीक्रियमाणे) मातृसंताने भ्रातृपितृव्यैदिषु च सापिण्ड्यं न स्यात् । समुदायशक्त्यङ्गीकारेण रूढिपरिग्रहेऽवयवशक्तिस्तत्रतत्रावगम्यमाना परित्यक्ता स्यात् । (सत्स्वयवार्थेषु योऽन्यत्रार्थे प्रयुज्यते तत्रानन्यगतित्वेन समुदायः प्रसिद्धयति ।) परम्परयैकशरीरावयवान्वयेन तु सापेिण्डये यथा नातिप्रसङ्गस्तथा वक्ष्यामः । यवीयसीं वयसा माणतश्च न्यूनां उद्वहेत्परिणयेत्स्वगृह्योक्तविधिन विशेषान्तराण्याह-

अरोगिणीं भ्रातृमतीमसमानार्षगोत्रजाम् ।

अरोगेिणीं अचिकित्सनीयव्याध्यनुपस्पृष्टाम् । भ्रातृमतीं पुत्रिकाकरणशङ्का निवृत्तये । अनेनापरिभाषितापि पुत्रिका भवतीति गम्यते । असमानार्पगोत्रजां ऋषेरिदमार्ष नाम प्रवर इत्यर्थः । गोत्रं वंशपरम्पराप्रसिद्धम् । आर्प च गोत्रं च आर्षगोत्रे । समाने आर्षगोत्रे यस्यासौ समानार्षगोत्रस्तस्माज्जाता समानार्षगोत्रजा समानार्षगोत्रजा असमानार्षगोत्रजा ताम् । गोत्रप्रवरौ च पृथक्पृथक्पर्यु दासनिमित्तम् । तेनासमानार्षजामसमानगोत्रजामिति । तथाच ‘असमानप्रवरै विाहः' इति गौतमः । तथा “असपिण्डा च या मातुरसपिण्डा च या पितुः । सा प्रशस्ता द्विजातीनां दारकर्मणि मैथुने ॥’ इति (३॥५) मनुः । तथा मातृगोत्रामप्यपरिणेयाँ केचिदिच्छन्तैि । ‘मातुलस्य सुतामूढ़ा मातृगोत्रां तथैव च । समानप्रवरां चैव गत्वा चान्द्रायणं चरेत् ॥’ इति प्रायश्चित्तस्मरणात् । अत्र चाऽसपिण्डामित्यनेन पितृष्वस्मृमातृष्वस्त्रादिदुहितृनिषेध । तथा असगो त्रामेित्यनेनासपिण्डाया अपि भिन्नसन्तानजायाः समानगोत्राया निषेधः । तथा असमानप्रवरामित्यनेनाप्यसपिण्डाया असगोत्राया अपि समानप्रवराया निषेधः । तथाच असपिण्डामित्येतत्सार्ववर्णिकम् । सर्वत्र सापिण्ड्यसञ्झावात् । असमाना


१ पिण्डनिर्वापणयुक्त्या निर्वाप्यसपिण्डा. ख. २ भ्रातृपुत्रादिषु ख. भ्रातृव्यपितृव्या. ग ३ क. पुस्तकेऽधिकमिदं. ४ प्रमाणेन च क. ५ असमानगोत्रजां असमानार्षजामित्यर्थः ख ६ असगोत्रा च ख. ग. ७ अत्र क, पुस्तके ‘सगोत्रां मातुरप्येके नेच्छन्त्युद्वाहकर्मणि । जन्मनाम्रोरविशाने तूद्वहेदविशङ्कितः ॥’ इति व्यासः इति विशेषः. ८ त्यक्त्वा ख.