क्षपयन् विजितेन्द्रिय इन्द्रियजये विशेषप्रयलवान्ब्रह्मचारी ब्रह्मलोकममृतत्व माझोति । न कदाचिदिह पुनर्जायते ॥ ४९ ॥ ५० ॥ इति ब्रह्मचारिप्रकरणम् ।
अथ विवाहप्रकरणम् ३ यः पुनर्वेवाह्यस्तस्य विवाहार्थ स्नानमाह-
गुरवे तु वरं दत्त्वा स्नायीत तदनुज्ञया ।
वेदं व्रतानि वा पारं नीत्वा द्युभयमेव वा ।। ५१ ।।
पूर्वोत्तेन न्यायेन वेदं मञ्चब्राह्मणात्मकम्, व्रतानि ब्रह्मचारिधर्माननुक्रान्तान्, उभये वा पारं नीत्वा समाप्य, गुरवे पूर्वोक्ताय वरमभिलषितं यथाशक्ति दत्त्वा स्रायात् । अशक्तौ तदनुज्ञया अदत्तवरोऽपि एषां च पक्षाणां शक्तिकालाद्य पेक्षया व्यवस्था ॥ ५१ ॥ स्नानानन्तरं किं कुर्यादित्यत आह-
अविपुतब्रह्मचर्यो लक्षण्यां स्त्रियमुद्वहेत् ।
अनन्यपूर्विकां कान्तामसपिण्डां यवीयसीम् ।। ५२ ।।
अविलुतब्रह्मचर्योऽस्खलेितब्रह्मचर्यः । लक्षण्याँ बाह्याभ्यन्तरलक्षणैर्युक्ताम् । बाह्यानि ‘तनुलोमकेशैदशनाम्’ इत्यादीनि (३॥१०) मनुनोक्तानि । आभ्य न्तराणि ‘अष्टौ पिण्डान्कृत्वा' इत्याद्याश्वलायनोक्तविधिना ३ज्ञातव्यानि । स्त्रियं नपुंसकत्वनिवृत्तये स्रीत्वेन परीक्षिताम् । अनन्यपूर्विकां दानेनोपभोगेन वा पुरुषान्तरापरिगृहीताम् । कान्तां कमनीयां वोडुर्मनोनयनानन्दकारिणीम् । 'यस्यां मनश्चक्षुषोर्निर्बन्धस्तस्यामृद्धिः’ इत्यापस्तम्बस्मरणात् । एतच्च न्यूनाधिकाङ्गाद्विबाह्यदोषाभावे । असपिण्डाँ समान एकः पिण्डो देहो यस्याः सा सपिण्डा न सपिण्डा असपिण्डा ताम् । सपिण्डता च एकशरीरावयवान्वयेन भवति । तथाहि पुत्रस्य पितृशरीरावयवान्वयेन पित्रैा सह । एवं पितामहा देभिरपि पितृद्वारेण तच्छरीरावयवान्वयात् । एवं मातृशरीरावयवान्वयेन मात्रा । तथा मातामहादिभिरपि मातृद्वारेण । तथा मातृष्वसृमातुलादि भिरप्येकशरीरावयवान्वयातू । तथा पितृव्यपितृष्वस्त्रादिभिरपि । तथा पत्यासह पल्या एकंशरीरारम्भकतया । एवं भ्रातृभार्याणामपि परस्परमेकशरीरारब्धैः
१ केशादीनि मनुप्रोक्तानि क . २ तानिच-पूर्वस्यां रात्रौ गोष्ठवल्मीककेितवस्थानहदे रिणक्षेत्रचतुष्पथश्मशानेभ्यो मृत्तिकां गृहीत्वा पिण्डाष्टकं कर्तव्यम् । तत्रानुक्रमेण प्रथमे पिण्डे स्पृष्टे धान्यवती भवेत् । द्वितीये स्पृष्टे पशुमती भवेत् । तृतीयेऽन्निहोत्रशुश्रूषणपरा भवति । चतुर्थे विवेकिनी चतुरा सर्वजनार्जनपरा भवति । पञ्चमे रोगिणी । षष्ठ वन्ध्या । सप्तमे व्यभिचारिणी । अष्टमे विधवा भवेदित्याश्वलायनोक्तानि. ३ सह सपिण्ड्यं ख. ४ एकशरीरारम्भैः क