पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रायश्चित्तप्रकरणम् ५] मिताक्षरासहिता । ३९७ सुराप आवासाश्च अझिवर्णा सुरां पिबेत्’ इति पैठनसेिस्मरणात् । तथा

  • लैौहेन पात्रेण सुरापोऽग्निवर्णा सुरामायसेन पात्रेण तात्रेण वा पिबेत्’ इति

प्रचेतःस्मरणात् । एतच सकृत्पानमा त्रे –“सुरापानं सकृत्कृत्वाप्यग्विण सुरां पिबेत्’ इत्यङ्गिरःस्मरणात् । यत्तु वसिष्ठवचनम्--'अभ्यासे तु सुरा याश्च अग्विण्णं पिबेद्विजः’ इति, तत्सुराव्यतिरिक्तमद्यपानविषयम् । एतच्च कामकारविषयम् 1–“सुरापाने कामकृते ज्वलन्तीं तां विनिक्षिपेत् । मुखे तया विनिर्दिग्धो मृतः शुद्धिमवामुयात् ॥’ इति बृहस्पतिस्मरणात् ॥ यतु ( ११।९०) ‘सुरां पीत्वा द्विजो मोहादग्विर्णा सुरां पिबेत्’ इति मनुना मोह ग्रहणं कृतं तच्छास्रार्थापरिज्ञानाभिप्रायेण ॥ अत्रेदं चिन्तनीयम्-किं सुरा शब्दो मद्यमात्रे रूढ उत तिसृष्वेव गौडीमाध्वीपैष्टीष्वाहोस्वित्पैष्टयामेवेति । तत्र केचिन्मद्यमात्रे रूढ इति वर्णयन्ति ।–‘अभ्यासे तु सुरायाः’ इति वासिष्ठ पैष्टयादित्रयव्यतिरिक्तऽपि मद्यमात्रे सुराशब्दप्रयोगदर्शनात् । नवासौ गौण प्रयोग इति शङ्कनीयम् । मदजननशक्तिमत्त्वोपाधिकतया सर्वत्र मुख्यत्वोपपत्तौ गौणत्वकल्पनाया अन्याय्यत्वादिति । तद्युक्तम् खार्जुरं तालमैक्षवम् । मधूत्थं सैरमारिष्ट मैरेयं नालिकेरजम् ॥ समानानि विजानीयान्मद्यान्येकादशैव तु । द्वादशं तु सुरामद्य सर्वेषामधमं स्मृतम् ॥ इति पुलस्त्येन मद्यविशेषत्वेन सुराया निर्दिष्टत्वात् । अतश्च मद्यमात्रे सुराशब्द अयोगो गौणः । अन्ये पुनः पैष्टयादिषु तिसृषु सुराशब्दस्य रूढिं मन्यन्ते । तथा हेि । यद्यप्यनेकत्र सुराशब्दप्रयोगो दृश्यते तथापि कुत्रानादित्वमिति संदेहे ( ११॥९४)–‘गौडी माध्वी च पैष्टी च विज्ञेया त्रिविधा सुरा' इति मनुवच नादुडमधुपिष्टविकारेष्वनादित्वनिर्धारणात्तत्रैव मुख्यत्वं युक्तम् शक्तिकल्पना दोषः । मदशत्तेरुपाधित्वाश्रयणेन तस्य सुपरिहरत्वात् । नच ताला दिरसेष्वप्युपाधेर्विद्यमानत्वादतिप्रसङ्गः । पङ्कजादिशब्दवद्योगरूढत्वाश्रयणात् । अतश्च–‘यथैवैका तथा सर्वा न पातव्या द्विजोत्तमैः’ इति तिसृणां सुराणां समानदोषत्वप्रतिपादनपूरै न पुनरनयोगौडीमाध्ठयोः पैष्टीसुरासमत्वप्रतिपादन परम् । द्विजोत्तमग्रहणं द्विजात्युपलक्षणम् । एतदप्ययुक्तम् -द्वादशं तु सुरा मद्य सर्वेषामधमं स्मृतम्’ इति पुलस्त्यवचने गौडीमाध्वीभ्यामपि सुरामथैस्या तथा (मनुः ११।९३)-सुरा वै मलमुच्यते’ इति । अन्नविकारस्यैव सुरात्वनिर्देशादन्नशब्दस्य च ‘अज्ञेन व्यञ्ज नम्' इत्यादिषु ब्रीह्यादिविकार एव प्रयोगदर्शनादुडमधुनोश्च रसरूपत्वात्तथा। सौत्रामणिग्रहेषु चान्नविकारे एव सुराशब्दस्य श्रुतत्वात् पैष्टयेव सुरा मुख्यो च्यते । इतरयोस्तु सुराशब्दो गौणः । यत्तूक्तम्--'गौडी माध्वी इति मनु वचनातिस्पृष्वप्यौत्पत्तिकत्वनिर्धारणेति, तदप्ययुक्तम् । यतो नेदं शब्दानुशासन वच्छब्दार्थसंबन्धानादित्वप्रतिपादनपरं किंतु कार्यप्रतिपादनपरम् । अतो गुरुप्राय १ पाधिकत्वेन ग. २ नेकशक्ति ङ. ३ मद्यस्य व्यतिरेक ङ