पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

याज्ञवल्क्यस्मृतिः। न्दितत्वावगतौ ङ. [प्रायश्चित्ताध्यायः श्चित्तनिभित्तया गौडीमाध्व्योगैणः सुराशब्दयोगः । एवं च नानेकशक्ति कल्पनादोषो नाप्युपाध्याश्रयणं कृतम् । नचात्र द्विजोत्तमञ्ग्रहणस्योपलक्षणत्वम् । अतश्च (मनुः ११।९३)-‘सुरा वै मलमन्नानां पाप्मा च मलमुच्यते । तस्माद्राह्मणराजन्यौ वैश्यश्च न सुरां पिबेत् ॥' इति पैष्टया एव वर्णत्रयसंबन्धि स्वेन निषेधः । गौड्यादीनां तु मद्यानां ब्राह्मणसंबन्धित्वेनैव निषेधो न क्षत्रिय वैश्ययोः । ( ११।९५)-‘यक्षरक्षःपिशाचान्नमद्य मांसं सुरासवम् । तद्राह्मणेन नात्तव्यं देवानामश्ता हवेि ॥' इति मानवे ब्राह्मणेनेति विशेषोपादानात् । बृहद्विष्णुनापि ब्राह्मणस्यैव मद्यप्रतिषेधो दर्शित –‘माधूकमैक्षवं सैरं तालं खार्जरपानसम् । मधूत्थं चैव माध्वीकं मैरेयं नालिकेरजम् ॥ अमेध्यानि दशैतानि मद्यानि ब्राह्मणस्य तु ॥’ इति ॥ बृहृद्याज्ञवल्क्येनापि क्षत्रियवैश्ययोर्दोषाभावो दार्शतः–“कामादपि हि राजन्यो वैश्यो वापि कथंचन । मद्यमेव सुरां पीत्वा न दोषं प्रतिपद्यते ॥’ इति । व्यासेनापि तयोर्माध्वीपानमनुज्ञातम्--'उभौ मध्वासवक्षीबावुभौ चन्दनचर्चितैौ । एकपर्यङ्करथिनो दृष्टौ मे केशवार्जुनै ॥ ' इति । एवं ब्राह्मणसंबन्धित्वेन मद्यमात्रनिषेधे सत्यपि (मनुः ११।९४) “गौडी माध्वी च पैष्टी च विज्ञेया त्रिविधा सुरा । यथैवैका तथा सर्वा न पातव्या द्विजोत्तमैः ॥’ इति गौडीमाध्व्योः पृथङ्गिषेधवचनं दोषगुरुत्वेन सुरासमत्वप्रतिपादनपरम् । अयंच सुरानिषेधोऽनुपनीतस्यानूढायाश्च कन्याया भवत्येव । (मनुः ११।९३)–‘तस्माद्राह्मणराजन्यौ वैश्यश्च न सुरां पिबेत् ’ इति जातिमात्रावच्छेदेन निषेधात् । अतश्च ( ११॥९० )-‘सुरां पीत्वा द्विजो मोहात्' इति प्रायश्चित्तविधिवाक्ये मनुना यद्विजग्रहणं कृतं तद्वर्णत्रयोप लक्षणार्थम् । निमित्तभूतनिषेधसापेक्षत्वात्रैमित्तिकविधेर्निषेधे च वर्णमात्रस्या वच्छेदकत्वात् । यथा ‘यस्य हविर्निरुसंपुरस्ताचन्द्रमा अभ्युदेति' इति निमित्तवाक्ये हविर्मात्राभ्युदयस्य निमित्तत्वावगतौ तत्सापेक्षनैमित्तिकवाक्ये श्रूयमाणमपि त्रेधातन्दुलान्विभजेदिति तन्दुलग्रहणं तन्दुलादिरूपहविर्मान्नोपलक्षणम् । इयांस्तु विशेषः-‘पादो बालेषु दातव्यः सर्वपापेष्वयं विधिः’ इति वचनात्कामकारे ऽपि न मरणान्तिकं किंतु पादमेव द्विगुणीकृत्य षङ्गार्षिकं देयम् ।-“विहितं अदकामानां कामात्तद्विगुणं चरेत’ इत्यङ्गिरःस्मरणात् । एवं वृद्धातुरादिष्वपि योज्यम् । मनुः (११॥९५)–‘तब्राह्मणेन नात्तव्यं देवानामश्ता हविः’ इति मद्यस्यापि जातिमात्रावच्छेदेन निषिद्धत्वादनुपनीतेनापि न पेयम् ॥ ननु कथ मनुपनीतस्य दोष ।–‘प्रागुपनयनात्कामचारकामवादकामभक्षाः’ इति गौतम वचनात् । तथा-मद्यमूत्रपुरीषाणां भक्षणे नास्ति कश्चन । दोषस्त्वा पञ्च माद्वर्षादूध्वै पित्रोः सुहृदुरोः ॥’ इति कुमारवचनाच दोषाभावावगतेः । उंच्यते-सुरामद्ययोर्निषेधवाक्ये जातिमात्रत्वावच्छेदकत्व स्वश्रवणादप्रतिहतेव निषेधप्रवृत्तिः । अतएव स्मृत्यन्तरे निषेधवचनम्–“सुरापाननिषेधस्तु जात्या