पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३.९६ याज्ञवल्क्यस्मृतः । [ प्रायश्चित्ताध्यायः व्यवहारे असत्यवचनेन प्राणिनां वधप्राप्तिस्तद्विषयमेतत् । प्रायश्चित्तस्यातिगुरुः त्वात् । प्रतिरोधः क्रोधावेशः । निक्षेपश्च ब्राह्मणसंबन्धी । स्त्री चाहिताग्भिार्या पतिव्रतात्वादिगुणयुक्तोच्यते सवनस्था च । यथाहाङ्गिराः–‘आहिताझेद्विजा यस्य हत्वा पत्रीमनिन्दिताम् । ब्रह्महत्याव्रतं कुर्यादात्रेयीश्वस्तथैव च ॥’ इति ।

  • सवनस्थां स्रियं हत्वा ब्रह्महत्यात्रतं चरेत् ॥’ इति पराशरस्मरणात् ॥ एवं

‘च सवनस्थान्निहोत्रियात्रेयीवधे ब्रह्महत्याप्रायश्चित्तातिदेशात्तच्द्यतिरिक्तस्रीवधस्य स्रीशूद्रविट्क्षत्रवध इत्युपपातकमध्यपाठादुपपातकत्वमेव ॥ ननु ‘बाह्मणो न हन्तव्य’ इत्यत्र निषेधेऽनुपादेयगतत्वेन लिङ्गवचनयोरविवक्षितत्वाब्राह्मणजातेश्च स्त्रीपुंसयोरैविशेषात्तदतिक्रमनिमित्तप्रायश्चित्तविधेर्बह्महा द्वादशाब्दानीत्यस्योभयत्र प्राप्सत्वात्किमर्थ तथात्रेयीनिघूदक इत्यतिदेशवचनम् । उच्यते । सत्यपि ब्राह्मण त्वेऽनात्रेया वधस्य च महापातकप्रायश्चित्तनिराकरणार्थमतस्तस्योपपातकमध्य पाठादुपपातकप्रायश्चित्तमेव । आतिदेशिकेषु च प्रायश्चित्तस्यवातिदेशो न पाति त्यस्य । अतः पतितत्यागादिकार्यमंत्र न भवति ॥ २५१ ॥ चरेद्रतमहत्वापि घातार्थ चेत्समागतः । द्विगुणं सवनस्थे तु ब्राह्मणे व्रतमादिशेत् ।। २५२ ।। किंच । यथावर्णमित्यनुवर्तते ब्राह्मणादिहनने कृतनिश्चयस्तब्द्यापादनार्थ सम्य गागत्य शस्रादिप्रहारे कृते कथंचित्प्रतिघातादिप्रबन्धवशादसौ न मृतस्तदा। अहत्वापि यथावर्ण ब्रह्महत्यादि बतं चरेत् । तथाच गौतमः –“स्पृष्टश्चेब्राह्म णवधे अहत्वापि’ इति । ननु हनने तदभावे चैवैकप्रायश्चित्तता न युक्ता । सत्यम् । अतएवौपदेशिकेभ्यो न्यूनत्वादातिदेशिकानां पादोनान्येव ब्रह्महत्यादि ब्रतानि द्वादशवार्षिकादीनि भवन्ति । एतच्च प्रपञ्चितं प्राक् । किंच । यस्तु सवनसंपाद्य सोमयागमनुतिष्ठन्तं ब्राह्मणं व्यापादयति तस्मिन्द्वादशवार्षिकादिवर्त द्विगुणं समादिशेत् । तेषां च बतानां गुरुलघुभूतानां जातिशक्तिगुणाद्यपेक्षया सत्यपि सवनस्थत्वस्याविशेषे पूर्ववदेव व्यवस्थावगन्तव्या । ब्रह्महत्यासमानां तु गुर्वधिक्षेपादीनामातिदेशिकेभ्योऽपि न्यूनत्वादधोंनं द्वादशवार्षिकादिप्रायश्चित्त ॥ २५२ ॥ इति ब्रह्महत्याप्रायश्चित्तप्रकरणम् अथ क्रमप्रासं सुरापानप्रायश्चित्तं प्रक्रमते सुराम्बुघृतगोमूत्रपयसामग्सिंनिभम् । सुरापोऽन्यतमं पीत्वा मरणाच्छुद्धिमृच्छति ।। २५३ ।। सुरादिनां मध्येऽन्यतममन्निसंनिभं छाथापादिताझिस्पर्शदाहशक्तिकं कृत्वा पीत्वा सुरापो मरणाच्छुद्धिं प्रामोति । गोमूत्रसाहचर्याद्वव्ये एव घृतपयसी आो । घृतपयःसाहचर्याच खैणमेव गोमूत्रम् । एतचावाससा कार्यम् - १ रविपर्ययात्.ङ. ३ कार्यमात्रं ङ