५ ] मिताक्षरासहिता ३७७ तिर्हन्तुः प्रवृत्तिमुपोद्वलयन्ती हिंसा फलंप्रति हेतुतां प्रतिपद्यते । तथा योऽपि भत्सैनताडनधनापहारादिना परान्कोपयति सोऽपि मरणहेतुभूतमन्यूत्पादनद्वा रेण हिंसाहेतुर्भवत्येव । अतएव विष्णुनोक्तम्-‘आकुष्टस्ताडितो वापि धनैर्वा विप्रयोजितः । यमुद्दिश्य त्यजेत्प्राणांस्तमाहुर्बह्मघातकम् ।।' इति । तथा–‘ज्ञाति मित्रकलत्रार्थ सुहृत्क्षेत्रार्थमेव च यमुद्दिश्य त्यजेत्प्राणांस्तमाहुर्बह्मघातकम् ॥” इति । नच कृतेष्वप्याक्रोशनादिषु कस्यचिन्मन्यूत्पत्यदर्शनादकारणतेति शङ्कनी यम् । पुरुषस्वभाववैचित्र्यात् । ये अल्पतरेणापि निमित्तेन जातमन्यवो भवन्ति तेष्वव्यभिचार इति नाकारणता । एतेषां चानुग्राहकप्रयोजकादीनां प्रत्यासत्तिव्य वधानापेक्षया व्यापारगतगुरुलाघवापेक्षया च फैलगुरुलाघवात् प्रायश्चित्तगुरुला घवं बोद्धव्यम् ।–‘यो भूय आरभते तस्मिन्फलविशेषः’, इति वचनात् । तथा ह्यनुग्राहकस्य तावत्स्वयमेव हिंसायां प्रवृत्तत्वेन स्वतन्त्रकर्तृत्वे सत्यपि साक्षात्प्राण वियोगफलकखङ्गप्रहारादिव्यापारयोगित्वाभावेन साक्षात्कर्तृवद्भयो हिंसारम्भक त्वाभावादल्पफलत्वमल्पप्रायश्चित्तत्वं च । प्रयोजकस्य तु स्वतन्त्रकर्तृप्रवृत्तिजनक त्वेन व्यवहितत्वात्ततोऽल्पफलत्वम् । प्रयोजकानां मध्ये परार्थप्रवृत्तत्वेनोपदेष्टुर ल्पफलत्वम् । ननु प्रयोजकहस्तस्थानीयत्वात्प्रयोज्यस्य न फलसंबन्धो युक्तः । यदि परप्रयुक्त्या प्रवर्तमानस्यापि संबन्धस्तर्हि स्थपतितडागखनितृप्रभृतीनामपि मूल्येन प्रवर्तमानानां स्वर्गादिफलप्राप्तिप्रसङ्गः । उच्यते । शास्रोक्तं फलं प्रयोक्त रीति न्यायेनाधिकारिकर्तृगतफलजनका देवैकूपतडागनिर्माणादयः । नच स्थपति तडागैखनित्रादयो देवकूपतडागकरणादिष्वधिकारिणः । अस्वर्गकामित्वात् । अत्र पुनः परप्रयुक्त्या प्रवर्तमानानामप्यहिंसायामधिकारित्वाद्भवत्येव तद्यतिक्रमनिब न्धनो दोषः । अनुमन्तुस्तु प्रयोजकादप्यल्पफलत्वं प्रयोजकव्यापाराद्वहिरङ्गत्वा लघुत्वाचानुमननस्य । निमित्तकर्तुः पुनराक्रोशकादेः प्रवृत्तिहेतुभूतमन्युजनकत्वेन व्यवहितत्वान्मरणानुसंधानं विना प्रवृत्तत्वाच्चानुमन्तुः सकाशदप्यल्पफलत्वम् । ननु यदि व्यवहितस्यापि कारणत्वं तर्हि मातापित्रोरपि हन्तृपुरुषोत्पादनद्वारेण हननकर्तृत्वप्रसङ्गः । उन्च्यते । नाह पूवभावत्वमात्रण कारणत्वम् कारण तयापि तथाभावित्वोपपत्तेः । यत्खलु स्वरूपातिरिक्तकार्योत्पत्त्यनुगुणव्यापारयोगि भवति तद्धि कारणम् । यदि रथन्तरसामा सोमः स्यादेन्द्रवायवाग्रान् प्रहान् गृह्णीयादिति रथन्तरसामतेव क्रतोरैन्द्रवायवाग्रतायैां कारणं। नहि तत्र सोमयाग स्वरूपेण कारणं व्यभिचारात् । नच पित्रोस्तादृग्विधकारणलक्षणयोगित्वमिति नैतिप्रसङ्गः । अनेनैव न्यायेन धर्माभिसंधिना निर्मितकूपवाप्यादौ प्रमादपतित ब्राह्मणादिमरणे खानयितुर्दोषाभावः । नहि कूपोऽनेन खानितः अतोऽहमात्मानं व्यापादयामीलेयवं कूपखनननिमित्तं व्यापादनं यथाक्रोशादौ । अत कूपकर्तुरपि कारणकारणत्वमेव न पुनहिँसाहेतुत्वमिति मातापितृतुल्यतैव । तथा कृचित्स त्यपि हिंसानिमित्तयोगित्वे परोपकारार्थप्रवृत्तौ वचनाद्दोषाभाव । यथाह १ तथान्योपि ख. २ फलंगुरु ख. ३ देवकुलतडाग . क. ग. ङ. ४ तडागकत्रर्वादयो ख. ५ दप्यफलत्वम् कारणं . ७ नास्ति प्रसंगः क. ख. ६ ग्रता ड
पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४०३
दिखावट