पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३७६ याज्ञवल्क्यस्मृतिः । [ प्रायश्चित्ताध्याय । क्षयो भवत्येव । फलान्तराभावात् । ‘नास्यास्मिलोके प्रत्यापतिर्विद्यते कल्मषं त निहन्यते’ इत्यापस्तम्वस्मरणात् ॥ २२६ ॥ निषिद्धाचरणादिकं प्रायश्चित्ते निमित्तमित्युक्तं तत्प्रपञ्चयितुमाह ब्रह्महा मद्यपः स्तेनस्तथैव गुरुतल्पगः । एते महापातकिनो यश्च तैः सह संवसेत् ।। २२७ ।। हृन्तिरयं प्राणवियोगैकरे व्यापारे रूढः । यद्यापारसमनन्तरं कालान्तरे वा कारणान्तरनिरपेक्षः प्राणवियोगो भवति सः । ब्राह्मणं हतवानिति ब्रह्महा । मद्यपी निषिद्धसुरायाः पाता । स्तनः ब्राह्मणसुवर्णस्य हर्ता । ‘ब्राह्मणसुवर्णापहरणं महा पातकं’ इत्यापस्तम्बस्मरणात् । गुरुतल्पगो गुरुभार्यागामी । तल्पशब्देन शयन वाचिना साहचर्याद्भार्या लक्ष्यते । एते ब्रह्महादयो महापातकिनः । पातयन्तीति पातकानि ब्रह्महत्यादीनि । महच्छब्देन तेषां गुरुत्वं ख्याप्यते तद्योगिनो महापा. किन इति । लाघवार्थ संज्ञाकरणम् । यश्च तैर्बह्महादिभिः प्रत्यकं सह संवसति ‘एभिस्तु संवसेद्यो वै वत्सरं सोऽपि तत्समः’ इति वक्ष्यमाणन्यायेन सोऽपि महा पातकी । तथाशब्दः प्रकारचचनोऽनुग्राहकप्रयोजकादिकर्तृसंग्रहार्थः । अनुग्राहकश्च यः पलायमानमभित्रं उपरुन्धन् परेभ्यश्च हन्तारं परिरक्षन्हन्तुढिमानमुपजन यत्रुपकरोति स उच्यते । अतएव मनुनानुग्राहकस्य हिंसाफलसंबन्धो दार्शतः–“बहूनामेककार्याणां सर्वेषां शस्रधारिणाम् । यद्येको घातयेत्तत्रसर्वे ते घातकाः स्मृताः ॥’ इति । तथा प्रयोजकादीनामप्यापस्तम्बेन फलसंबन्ध उक्तः–‘प्रयोजितानुमन्ता कर्ता चेति स्वर्गनरकफलेषु कर्मसु यो भूय आरभते तस्मिन्फलविशेषः’ इति तत्राप्रवृत्तस्य प्रवर्तकः प्रयोजकः । स च त्रिप्रकारः आज्ञापयेिताभ्यर्थयमान उपदेष्टति । तत्राज्ञापयिता नाम स्वयमुच्चः सन्नीचं भृत्यादिकं यः प्रेरयति मदीयममेित्रं जहीति स उच्यते । अभ्यर्थयमानस्तु य स्वयमसमर्थः सन् प्रार्थनादिना मच्छतुं व्यापादयेत्युचं प्रवर्तयति सोऽभिधियते । अनयोश्च स्वार्थसिद्धयर्थमेव प्रयोक्तृत्वम् । उपदेष्टा पुनस्त्वं शत्रुमित्थं व्यापाद् येति ममद्धाटनाद्युपदेशपुरःसरं प्रेरयन्कथ्यते । तत्र च प्रयोज्यगतमेव फलमिति तेषां भेद । अनुमन्ता तु प्रवृत्तस्य प्रवर्तकः । स द्विप्रकारः-कश्चित्स्वार्थसिद्यर्थ मनुजानाति कश्चित्परार्थमिति ॥ नन्वनुमननस्य कथं हिंसाहेतुत्वं, न तावत्प्राण वियोगोत्पादनेन, तस्य साक्षात्कर्तृव्यापारजन्यत्वात् । नापि प्रयोजकस्येव, साक्षा त्कर्तृप्रवृत्युत्पादनद्वारेण प्रवृत्तस्य प्रवर्तकत्वात् । नच साधु त्वयाध्यवसितमेिति प्रवृत्तमेवानुमन्यत इति शङ्कनीयम् । तादृशस्यानुमननस्य हिंसां प्रत्यहेतुत्वाद्यथै त्वाच । उच्यते । यत्र हि राजादिपारतन्त्र्यात्स्वयं मनसा प्रवृत्तोऽपि प्रवृत्ति वेिच्छेदभयादागामिदण्डभयाद्वा शिथिलप्रयतो राजाद्यनुमतिमपेक्षते तत्रानुम १ नास्यान्यस्मिछेोके ख. २ वियोगकरणे ख. ३ समर्थ प्रवर्तयति ड.४ तादृशमननस्य ख