सामग्री पर जाएँ

पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३७८ याज्ञवल्क्यस्मृतिः । [ प्रायश्चित्ताध्यायः संवर्तः–‘बन्धने गोश्चिकित्साथै मूढगर्भविमोचने । यले कृते विपतिश्चेत्प्राय श्चित्तं न विद्यते ॥ ओौषधं स्नेहमाहारै ददद्भोब्राह्मणादिषु । दीयमाने विपत्तिः स्यान्न स पापेन लिप्यते ॥ दाहच्छेदशिराभेदप्रयलरुपकुर्वताम् । प्राणसंत्राण. सिद्धयर्थ प्रायश्चित्तं न विद्यते ॥' इति । एतच्चादाननिदाननिपुणभिषग्विषयम् । इतरस्य तु ‘भिषङ्कमिथ्याचरन्दाप्यः' इत्यत्र दोषो दर्शितः । यत्र तु मन्युनिमित्ता क्रोशनादिकमकुर्वतोऽपि नाम गृहीत्वोन्मादादिनात्मानं व्यापादयति तत्रापि न दोष ।–“अकारणं तु यः कश्चिद्विजः प्राणान्परित्यजेत् । तस्यैव तत्र दोषः स्यान्न तु यं परिकीर्तयेत् ॥’ इति स्मरणात् ॥ तथा यत्राप्याक्रोशकादिजनितमन्युर त्मानं खङ्गादिना प्रह्महत्य मरणादर्वागाक्रोशनादिकत्रं धनदानादिना संतोषितो यदि जनसमक्षमुचेः श्रावयति नात्राक्रोशकस्यापराध इति तत्रापि वचनान्न दोषः । यथाह विष्णुः–‘उद्दिश्य कुपितो हत्वा तोषितः श्रावयेत्पुनः । तस्मिन्मृते न दोषोऽस्ति द्वयोरुच्छ्ावणे कृते ॥ इति । एतेषां च प्रयोजकादिनां दोषगुरुलघुभाव पर्यालोचनया प्रायश्चित्तविशेषं वक्ष्यामः ॥ २२७ ॥ गुरूणामध्यविक्षेपो वेदनिन्दा सुहृद्वधः । ब्रह्महत्यासमं ज्ञेयमधीतस्य च नाशनम् ।। २२८ ।। गुरूणामाधिक्येनाधिक्षेपः अनृताभिशंसनम् । ‘गुरोरनृताभिशंसनमिति महा पातकसमानि' इति गौतमस्मरणात् । एतच्च लोकाविदितदोषाभिशंसनविष यम् । ‘दोषं बुङ्का न पूर्वः परेषां समाख्याता स्यात्संव्यवहारे चैनं परिहरेत् इत्यापस्तम्बस्मरणात् । नास्तिक्याभिनिवेशेन वेदकुत्सनम् । सुहृन्मित्रं तस्या ब्राह्मणस्यापि वधः । अधीतस्य वेदस्यासच्छास्त्रवेिनोदेनालस्यादिना वा नाशनं विस्मरणम् । एतानि प्रत्येकं ब्रह्महत्यासमानि । यत्पुनः “स्वाध्यायामिसुतत्यागाः इत्यधीतल्यागस्योपपातकमध्ये परिगणनं तत्कथंचित्कुटुम्बभरणाकुलतया सच्छास्त्र श्रवणव्यग्रतया वा विस्मरणे द्रष्टव्यम् ॥ २२८ ॥ सुरापानसमान्याह निषिद्धभक्षणं जैह्वयमुत्कर्षे च वचोऽनृतम् । रजखलामुखास्वादः सुरापानसमानि तु ।। २२ ॥ निषिद्धं लशुनादिकं तस्य मतिपूर्व भक्षणम् । अतएव मनुः (५॥१९) छत्राकं वेिङ्कराहं च लशुनै प्रामकुकुटम् । पलाण्डं गृञ्जनं चैव मत्या जग्ध्वा पतेझेरः ॥” इति । अमतिपूर्वे तु प्रायश्चित्तान्तरम् (५॥२० )-‘अमयैतानि षड् जग्ध्वा कृच्छू सान्तपनं चरेत् । यतिचान्द्रायणं वापि शेषेधूपवसेदहः ॥ १ मन्युनात्मानंख.२ कर्ता-धनंदाना ड. ३ ततः क. ४ मुत्कर्ष च ङ. ५ द्विज इति पाठः