पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/३९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३६४ याज्ञवल्क्यस्मृतेिः । १ सत्यवचन ख. अजवीथ्यमरमार्गः तस्यागस्त्यस्य च यदन्तरमसौ पितृयानस्तेनान्निहोत्रिण स्वर्गकामाः दिवं यान्ति स्वर्ग प्रामुवान्ति ॥ १८४ ॥ ये च दानपराः सम्यगष्टाभिश्च गुणैर्युताः । तेऽपि तेनैव मार्गेण सत्यत्रतपरायणाः ।। १८५ ।। किंच । ये च दानादिस्मार्तकर्मपराः सम्यग्दम्भरहिताः तथाष्टाभिरात्मगुणै याक्षान्तिरनसूयाशौचमनायासो मङ्गलमकार्पण्यमस्पृहेति गौतमादिप्रतिपादि तैर्युक्ता । तथा ये च सत्यवदननिरतास्तेऽपि तेनैव पितृयानेनैव सुरसदनमा मुवन्ति ॥ १८५ ।। ननु नैमित्तिकादिप्रतिसंचरेऽखिलाध्यापकप्रलयादविदितवेदास्तस्योपरितना जनाः कथममिहोत्रादिकं कर्म करिष्यन्ति कथंतरां चाकृतकर्माणः स्वर्गमार्गमधिरो क्ष्यन्तीत्यत आह तत्राष्टाशीतिसाहस्रा मुनयो गृहमेधिनः । पुनरावर्तिनो बीजभूता धर्मप्रवर्तकाः ॥ १८६ ।। तत्र पितृयानेऽष्टाशीतिसहस्रसंख्या मुनयो गृहस्थाश्रमिणः पुनरावृत्तिधर्माण सर्गादौ वेदस्योपदेशकतया धर्मतरुप्रादुर्भावे बीजभूताः सन्तोऽाँझेहोत्रादिधर्म प्रवर्तकाः, अतो न प्रागुदितदोषेसमासङ्गः ॥ १८६ ॥ सप्तर्षिनागवीथ्यन्तर्देवलोकं समाश्रिताः । तावन्त एव मुनयः सवॉरम्भविवर्जिताः ।। १८७ ।। तपसा ब्रह्मचर्येण सङ्गत्यागेन मेधया । तत्र गत्वावतिष्ठन्ते यावदाभूतसंप्रवम् ।। १८ ।। किंच । सप्तर्षयः प्रसिद्धाः नागवीथी ऐरावतपन्थाः तदन्तराले तावन्त एव अष्टाशीतिसहस्रसंख्या मुनयः सर्वारम्भवेिवर्जिताः केवलज्ञाननेिष्ठाः तपोब्रह्मचर्य युक्ताः तथा सङ्गत्यागिनो देवलोकं समाश्रिताः आभूतसंप्लवं प्राकृतप्रलयपर्यन्त मवतिष्ठन्ते । तत्र च स्थिताः सृष्टयादावाध्यात्मिकधर्माणां प्रवर्तकाः ॥ १८७॥१८८ ॥ कथंभूतास्ते मुनय इत्यत आह यतो वेदाः पुराणानि विद्योपनिषदस्तथा । श्लोकाः सूत्राणि भाष्याणि यच किंचन वाङ्मयम् ॥१८९॥ यतो द्विविधादपि मुनिसमूहाचत्वारो वेदाः पुराणाङ्गविद्योपनिषदश्च नित्यभूता एवाध्येतृपरम्परायाताः प्रवृत्तास्तथा श्लोका इतिहासात्मकाः सूत्राणि च शब्दानुशासनमीमांसागोचराणि भाष्याणि चव सूत्रव्याख्यारूपाणि यदन्य [ प्रायश्चित्ताध्यायः २ समागमः ङ.