यतिधर्मप्रकरणम् ४] मिताक्षरासहिता । णान्तराग्राह्यत्वात् । असन् अस्पष्टप्रतीतिकत्वात् । सदसद्भपोऽसावात्मा क्षेत्रज्ञ इति निगद्यते ॥ १७७ ॥ १७८ ॥ बुद्धयादेरुत्पत्तिमाह बुद्धेरुत्पत्तिरव्यक्तात्ततोऽहंकारसंभवः । तन्मात्रादीन्यहंकारादेकोत्तरगुणानि च ।। १७९ ।। सत्वादिगुणसाम्यमव्यक्तम् । ततस्त्रिप्रकारायाः सत्त्वरजस्तमोमया बुद्धेरु त्पत्तिः तस्याश्च वैकारिकतैजसो भूतादिरिति त्रिविधोऽहंकार उत्पद्यते । तत्र ताम सान्दूतादिसंज्ञकादहंकारात्तन्मात्राणि आदिग्रहणाद्वगनादीनि तानि चैकोत्तरगुणा न्युत्पद्यन्ते । चशब्दाद्वैकारिकतैजसाभ्यां बुद्धिकर्मेन्द्रियाणामुत्पत्तिः ॥ १७९ ॥ १ तदुणाः ख . ३६३ शब्दः स्पर्शश्च रूपं च रसो गन्धश्च तंदुणः । यो यस्मान्निःसृतचैषां स तस्मिन्नेव लीयते ।। १८० ।। तेषां गगनादिपञ्चभूतानां एकोत्तरवृद्धया पञ्च शब्दादयो गुणा वेदितव्याः । एषां च बुद्धयादिविकाराणां मध्ये यो यस्मात्प्रकृत्यादेरुपन्नः स तस्मिन्नेव सूक्ष्म रूपेण प्रलयसमये प्रलीयते ॥ १८० ॥ प्रकरणाथमुपसहराह यथात्मानं सृजत्यात्मा तथा वः कथितो मया । विपाकात्रिप्रकाराणां कर्मणामीश्वरोऽपि सन् । १८१ ।। सत्वं रजस्तमचैव गुणास्तस्यैव कीर्तिताः । रजस्तमोभ्यामाविष्टश्चक्रवद्वाम्यते ह्यसौ ।। १८२ ।। अनादिरादिमांश्चैव स एव पुरुषः परः । लिङ्गेन्द्रियग्रांह्यरूपः सविकार उदाहृतः ।। १८३ ।। मानसादित्रिप्रकारकर्मणां विपाकादीश्वरोऽपि सन्नात्मा यथात्मार्न सृजति तथा युष्माकं कथितः । सत्वाद्याश्च गुणास्तस्यैवैविद्याविशिष्टस्य कीर्तिताः । तथा स एव रजस्तमोभ्यामाविष्टश्चक्रवदिह संसारे भ्राम्यतीत्यपि कथितम् । स एवानादिः परमपुरुषः शरीरग्रहणेनादिमान् कुलवामनादिविकारसहितस्तथा स्थूलाकारतया परिणतो लिङ्गेरिन्द्रियैश्च ग्राह्यस्वरूप उदाहृत ॥ १८१-१८३ ॥ स्वर्गमार्गमाह पितृयानोऽजवीथ्याश्च यदगस्त्यस्य चान्तरम् । तेनाग्निहोत्रिणो यान्ति स्वर्गकामा दिवं प्रति ।। १८४ ।। २ तलैयवाविशिष्टस्य ख.
पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/३८९
दिखावट