ग्रतिधर्मप्रकरणम् ४ ] मिताक्षरासहिता । दायुर्विद्यादिकं वाञ्जायं तदपि यत्सकाशात्प्रवृत्तं तथाविधास्ते मुनयो धर्मप्रवर्तकाः । एवंसति वेदस्यापि नानित्यतादोषप्रसङ्गः ॥ १८९ ॥ ततः किमित्यत आह वेदानुवचनं यज्ञो ब्रह्मचर्यं तपो दमः । श्रद्धोपवासः स्वातन्यमात्मनो ज्ञानहेतवः ।। १९० ।। वेदस्य नित्यत्वे सति तत्प्रामाण्यबलाद्वेदानुवचनाद्यः सत्त्वशुद्धयापादनद्वारे णात्मज्ञानस्य हेतव इत्युपपलं भवति ॥ १९० ॥ स ह्याश्रमैर्विजिज्ञास्यः समस्तैरेवमेव तु । द्रष्टव्यस्त्वथ मन्तव्यः श्रोतव्यश्च द्विजातिभिः ॥ १९१ ।। य एनमेवं विन्दन्ति ये चारण्यकमाश्रिताः । उपासते द्विजाः सत्यं श्रद्धया परया युताः ॥ १९२ ।। किंच । यस्मान्नित्यतयात्मप्रमाणभूतो वेदुस्तस्मादसावुक्तमार्गेण सकलाश्रमि भिननाप्रकारं जिज्ञासितव्यः । तमेव प्रकारं दर्शयति-द्विजातिभिद्वैष्टव्योऽपरो क्षीकर्तव्यः । तत्रेोपायं दर्शयति-श्रोतव्यो मन्तव्य इति । प्रथमतो वेदान्तश्रव णेन निर्णेतव्यः । तदनन्तरं मन्तव्यः युक्तिभिर्विचारयितव्यः । ततोऽसौ ध्यानेना परोक्षीभवति । ये द्विजातयोऽतिशयश्रद्धायुक्ताः सन्तो निर्जनप्रदेशमाश्रिताः सन्त एवमुक्तेन मार्गेण एनमात्मानं सत्यं परमार्थभूतमुपासतेते आत्मानं विदन्ति लभन्ते प्रामुवन्ति ॥ १९१ ॥ १९२ ॥ प्राप्तिमार्ग देवयानमाह-- क्रमात्ते संभवन्त्यचैिरहः शुहूं तथोत्तरम् । अयनं देवलोकं च सवितारं सवैद्युतम् ।। १९३ ॥ ततस्तान्पुरुषोऽभ्येत्य मानसो ब्रह्मलैौकिकान् । करोति पुनरावृत्तिस्तेषामिह न विद्यते ।। १९४ ।। ते विदितात्मानः क्रमादश्याद्यभिमानिदेवतास्थानेषु मुक्तिमार्गभूतेषु विश्राम्य तैः प्रस्थापिताः परमपदं प्रामुवन्ति । अर्चिर्वह्निः, अहर्दिनं, शुकुपक्षः, तथोत्त रायणं, सुरसद्म, सविता सूर्यः, वैद्युतं च तेजः तान् एवं क्रमादर्चिरादिस्थानगता न्मानसः पुरुषो ब्रह्मलोकभाजः करोति । तेषामिह संसारे पुनरावृत्तिर्न विद्यते किंतु प्राकृतप्रतिसंचरावसरे त्यक्तलिङ्गशरीराः परमात्मन्येकीभवन्ि त ॥ १९३॥ १९४ ॥ पूर्वोक्तपितृयानमा यज्ञेन तपसा दानैर्ये हेि खर्गजितो नराः । धूमं निशां कृष्णपक्षं दक्षिणायनमेव च ॥ १९५ ॥
पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/३९१
दिखावट