पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/३८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३६० याज्ञवल्क्यस्मृतिः । [प्रायश्चित्ताध्यायः रूपेण कारणक्रलापेन गर्भस्याङ्गहीनत्वादिविकारो जन्मन ऑरभ्यानियतकालो दृष्टः ॥. १६३॥ ननु प्राकृतिकप्रलयावसरे महदाद्यखिलविकारवेिनाशे कर्मणो नाशात्कथं तन्नि बन्धनः प्रथमपिण्डपरिग्रह इत्याशङ्कयाह-- अहंकारेण मनसा गत्या कर्मफलेन च । शरीरेण च नात्मायं मुक्तपूर्वः कथंचन ।। १६४ ।। मनोहंकारौ प्रसिद्धौ । गतिः संसरणहेतुभूतो दोषराशिः । कर्मफलं धर्मा धर्मरूपम् एतैरहंकारादिभिरयमात्मा कदाचिदपि न मुच्यते । शरीरं लिङ्गात्मकं यावन्मोक्षः ॥ १६४ ॥ ननु प्रतिनियतकर्मणां जीवानां प्रतिनियतकालमेवोपरतिर्युक्ता न पुनः संग्रा मादा युगपदकाले प्राणसंक्षय इत्याशङ्कयाह वल्यधारलेहयोगाद्यथा दीपस्य संस्थितिः । विक्रियापि च दृष्टवमकाले प्राणसंक्षयः ॥ १६५ ।। यथा हि खलु तैलकुिझानेकैवर्तिवर्तिनीनां नानाज्वालानां युगपत्संस्थितिः तासां च स्थितौनां तदुत्तरं दोधूयमानपवनाहतिरूपविपत्तिहेतूपनिपातयौग पद्यायुगपदुपरतिर्यथा भवति तथैव रथिसारथिवाजिकुञ्जरादिजीवानां युद्धाख्यो परतिहेतुयौगपद्याद्कालेऽपि प्राणपरिक्षयो नानुपपन्न । एतदुक्तं भवति । प्रतिनियतकालविपत्तिहेतुभूतादृष्टस्य तद्विरुद्धकार्यकरदृष्टहेतूपनिपातेन प्रतिबन्ध इति ॥ १६५ मोक्षमार्गमाह अनन्ता रश्मयस्तस्य दीपवद्यः स्थितो हृदि । सितासिताः कंबुरूपाः कपिला नीललोहिताः ।। १६६ ॥ ऊध्र्वमेकः स्थितस्तेषां यो भित्त्वा सूर्यमण्डलम् । ब्रह्मलोकमतिक्रम्य तेन याति परां गतिम् ।। १६७ ॥ योऽसैौ ह्यदि प्रदीपवत्स्थितो जीवस्तस्यानन्ता रश्मयो नाड्यः सुखदुःखहेतु भूताः “द्वासप्ततिसहस्राणी'त्यादिनोक्ताः सितासितकर्बुरादिरूपाः सर्वतः स्थिता तेषामेको रश्मिरूध्वं व्यवस्थितः योऽसौ मार्तण्डमण्डलं निर्भिद्य हिरण्यगर्भ निलयं चातिक्रम्य वर्तते तेन जीवः परां गतिमपुनरावृत्तिलक्षणां प्राप्तोति ॥१६७॥ स्वर्गमार्गमाह यदस्यान्यद्रश्मिशतमूध्र्वमेव व्यवस्थितम् । तेन देवशरीराणि सधामानि प्रपद्यते ।। १६८ ।। १ भ्रारभ्यनियत ङ. . २ नेकवर्तिनीनां ङ. ३ स्थितानां पडतरदोधूयमा ङ. ४ कर्बुनीलाः कपिलाः पीतलोहिताः ङ. न