पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/३८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यतिधर्मप्रकरणम् ४ ] मिताक्षरासहिता । ३६१ यदस्यात्मनो मुक्तिमार्गभूताद्रश्मेरन्यद्रश्मिशतमूध्वकारमेव व्यवस्थितं तेन सुरशरीराणि तैजसानि सुखैकभोगाधिकरणानि सधामानि कनकरजतरत्ररचिता मरपुरसहितानि प्रपद्यते ॥ १६८ ।। येनैकरूपाश्चाधस्ताद्रश्र्मयोऽस्य मृदुप्रभाः । इह कर्मोपभोगाय तैः संसरति सोऽवशः ॥ १६९ ॥ ये पुनस्तस्याधस्ताद्रश्मयो मृदुप्रभातैरिह फलोपभोगाथै संसारे संसरति अवशः स्वकृतकर्मपरतन्नः ॥ १६९ ॥ भूतचैतन्यवादिपक्षं परिजिहीर्षराह वेदैः शाखैः सविज्ञानैर्जन्मना मरणेन च । आत्र्या गत्या तथाऽगत्या सत्येन ह्यनृतेन च ॥ १७० ॥ श्रेयसा सुखदुःखाभ्यां कर्मभिश्च शुभाशुभैः । निमित्तशाकुनज्ञानग्रहसंयोगजैः फलैः ॥ १७१ ।। तारानक्षत्रसंचारैजगरैः खमजैरपि । आकाशपवनज्योतिर्जलभूतिमिरैस्तथा ।। १७२ ॥ मन्वन्तरैर्युगप्राश्या मत्रौषधिफलैरपि । वेित्तात्मानं वेद्यमानं कारणं जगतस्तथा ॥ १७३ ॥ वेदैः ‘स एष नेति नेत्यात्मे'ति, ‘अस्थूलमनण्वहस्वमपाणिपादम्’ इत्यादिभि । शाखैश्च मीमांसान्वीक्षिक्यादिभिः । विज्ञानैश्च ममेदं शरीरमित्यादिदेहव्यति रिक्तात्मानुभवैः । तथा जन्ममरणाभ्यां जन्मान्तरानुष्ठितधर्माधर्मनियताभ्याँ देहातिरिक्तात्मानुमानम् । आात्र्या जन्मान्तरगतकर्मानुष्ठातृनियतया । तथा गम नागमनाभ्यां ज्ञानेच्छाप्रयत्राधारनियताभ्यामपि भौतिकदेहातिरिक्तात्मानुमा नम् । नहि देहस्य चैतन्यादि संभवति । यतः कारेणगुणप्रोक्तक्रमेण कार्यद्रव्ये वैशेषिकगुणारम्भो दृष्टः । नच तत्कारणभूतपार्थिवपरमाण्वादिषु चैतन्यादि समवायः सभवात । तदारब्धस्तम्भकुम्भादिभौतिकेष्वनुपलम्भात् । नच मद्दु शक्तिवदुदकादिद्रव्यान्तरसंयोगज इति वाच्यम् । शक्तः साधारणगुणत्वात् । अतो भौतिकदेहातिरितैश्चतन्यादिसमवाय्यङ्गीकर्तव्यः । सत्यानृते प्रसिद्धे । श्रेयो हित प्राप्तिः । सुखदुःखे आमुष्मिके । तथा शुभकर्मानुष्ठानमशुभकर्मपरित्यागः । एतैश्च ज्ञाननियतैर्देहातिरिक्तात्मानुमानम् । निमित्त भूकम्पादि । शाकुनज्ञानं पिङ्गलादिपतश्चेिष्टालिङ्गकै ज्ञानम् । ग्रहाः सूर्यादयः तत्संयोगजैः फलैः । तारा अश्विन्यादिव्यतिरिक्तानि ज्योतींषि नक्षत्राण्यश्वयुकूप्रभृतीनि एतेषां संचरैः १ रश्मयश्च ख. २ कारणगुणप्रक्रमेण. ड. ३ रिक्तचैतन्यादि ख