यतिधर्मप्रकरणम् ४ ] मिताक्षरासहिता । नालोकनालम्भयोः परित्यागः । सर्वभूतेष्वात्मवद्दर्शनं समत्वदर्शनम् । परि ग्रहाणां च पुत्रक्षेत्रकलत्रादीनां त्यागः । जीर्णकाषायधारणम् । तथा शब्दस्पश दिविषयेषु श्रोत्रादीन्द्रियाणां प्रवृत्तिनिरोध । तन्द्रा निद्रानुकारिणी । आलस्यमनु त्साहः तयोर्विशेषेण त्यागः । शरीरस्य परिसंख्यानमस्थिराशुचित्वादिदोषानु सधानम् । तथा सकलगमनादिषु प्रवृतिषु सूक्ष्मप्राणिवधादिदोषपरामर्शः । तथा रजस्तमोवेिधुरता प्राणायामादिभिर्भावशुद्धिः । निःस्पृहता विषयेष्वनभि लाषः । शमो बाह्यान्तःकरणसंयमः । एतैराचार्योपासनादिभिरुपायैः सम्यक् शुद्धः केवलसत्त्वयुक्तो ब्रह्मोपासनेनामृती भवेत् मुक्तो भवति ॥ १५६-१५९ ॥ कथममृतत्वप्राप्तिरित्यत आह तत्व स्मृतेरुपस्थानात्सत्वयोगात्परिक्षयात् । कर्मणां संनिकर्षाच सतां योगः प्रवर्तते ।। १६० ।। आत्माख्यतत्त्वस्मृतेरात्मनि निश्चलतयोपस्थानात् सत्व शुद्धियोगात्केवलसत्त्व गुणयोगात्कर्मबीजानां परिक्षयातू सत्पुरुषाणां च संबन्धात् आत्मयोग प्रवर्तते ॥ १ ६० शरीरसंक्षये यस्य मनः सत्वस्थमीश्वरम् । अविश्रुतमतिः सम्यग्जातिसंस्मरतामियात् ।। १६१ ।। किंच । यस्य पुनयोगिनोऽविलुतमतेः शरीरसंक्षयसमये मनः सत्त्वयुक्तं सम्य गेकाग्रतयेश्वरं प्रति व्याप्रियते स यद्युपासनाप्रयोगाप्रवीणतयात्मानं नाधि गच्छति तर्हि विशिष्टसंस्कारपाटववशेन जात्यन्तरानुभूतकृमिकीटादिनानागर्भ वासादिसमुदूतदुःखस्मरत्वं प्रामुयात् । तत्स्मरणेन च जातोद्वेगतस्तद्विच्छेदकारिणि मोक्षे प्रवर्तते ॥ १६१ ।। यस्त्वैपटुसंस्कारतया पूर्वा जातिं न स्मरति तस्य का गतिरित्यत्राह यथा हि भरतो वर्णेर्वर्णयत्यात्मनस्तनुम् । नानारूपाणि कुर्वाणस्तथात्मा कर्मजास्तनूः ।। १६२ ।। भरतो नटः स यथा रामरावणादिनानारूपाणि कुर्वाणः सितासितपीतादिभि वैणैरात्मनस्ततुं वर्णयति रचयति तथैवात्मा तत्तत्कर्मफलोपभोगाथै कुछवाम नादिनानारूपाणि कर्मनिमित्तानि कलेवराण्यादत्ते ॥ १६२ ॥ कालकर्मात्मबीजानां दोषैर्मातुस्तथैव च । गर्भस्य वैकृतं दृष्टमङ्गहीनादि जन्मतः ।। १६३ ।। किंच । न केवलं कमैव कुब्वामनत्वादिनिमित्तं किंतु कालकर्मणि स्वैका रणपितृबीजदोषो मातृदोषश्चेति सर्वमेतत्सहकारिकारणम् । एतेन दृष्टादृष्टस्व ३५९ १ यत्स्वयं दुःस्संस्कार ख . २ स्वपितृकारणबीज ख .
पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/३८५
दिखावट