सामग्री पर जाएँ

पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/३८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३५८ याज्ञवल्क्यस्मृतिः । [ प्रायश्चित्ताध्यायः योऽसै पूर्वोक्त आत्मा विलुतोऽहंकारदूषितः स सकलवकर्मसु फलमस्ति न वेति संदिग्धमतिर्भवति । तथाऽसिद्धोऽप्यकृतार्थोऽपि सिद्धमेव कृतार्थमात्मानं मन्यते ॥ १५२ ॥ मम दाराः सुतामात्या अहमेषामिति स्थितिः । हिताहितेषु भावेषु विपरीतमितिः सदा ।। १५३ ।। किंचव । तस्य विपुतमतेर्मम कलत्रपुत्रप्रेष्यादयोऽहमेषामित्यतीव ममताकुल स्थितिर्भवति । तथा हिताहितकरे कार्यप्रकरे स चिप्लुतमतिर्विपरीतमतिः सदा भवेत् ॥ १५३ ॥ ज्ञेयज्ञे प्रकृतौ चैव विकारे वाविशेषवान् । अनाशकानलाघातजलप्रपतनोद्यमी ।। १५४ ।। एवंवृत्तोऽविनीतात्मा वितथाभिनिवेशवान् । कर्मणा द्वेषमोहाभ्यामिच्छया चैव बध्यते ।। १५५ ।। किंच ज्ञेयं जानातीति ज्ञेयज्ञस्तस्मिन्नात्मनि प्रकृतौ चात्मनो गुणसाम्या वस्थायां विकारे वाहंकारादावविशेषवान् विवेकानभिज्ञो भवति । तथानशनहुता शनाम्बुप्रवेशविषाशनादिषु विष्ववशात्कृतप्रयतो भवेत् । एवं नानाप्रकाराकार्य प्रवृत्तोऽविनीतात्माऽसंयतात्मा असत्कार्याभिनिवेशयुक्तः सन् तत्कृतकर्मजातेन रागद्वेषाभ्यां मोहेन च बध्यते ॥ १५४ ॥ १५ ॥ शरीरग्रहणद्वारेण कथं पुनस्तस्य विस्रम्भो भवतीत्यत आह आचार्योपासनं वेदशास्त्रार्थेषु विवेकिता । तत्कर्मणामनुष्ठानं सङ्गः सद्भिर्गिरः शुभाः ।। १५६ । । ख्यालोकालम्भविगमः सर्वभूतात्मदर्शनम्। त्यागः परिग्रहाणां च जीर्णकाषायधारणम् ।। १५७ ।। विषयेन्द्रियसंरोधस्तन्द्रालस्यविवर्जनम् । शरीरपरिसंख्यानं प्रवृत्तिष्वघदर्शनम् ।। १५८ ॥ नीरजस्तमसा सत्त्वशुद्धिर्निःस्पृहता शमः । एतैरुपायैः संशुद्धः सत्वयोग्यमृती भवेत् ।। १५९ ।। .. विद्यार्थमाचार्यसेवा । चेदान्तार्थेषु पातञ्जलादियोगशास्त्रार्थेषु च विवेकित्वम् । तप्रतिपादितध्यानकर्मणामनुष्ठानम् । सत्पुरुषसङ्गः प्रियहितवचनत्वम् । लल