पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/३७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३४६ याज्ञवल्क्यस्मृतिः । [ प्रायश्चित्ताध्यायः द्वौ शङ्ककौ कपालानि चत्वारि शिरसस्तथा । उरः सप्तदशास्थीनि पुरुषस्यास्थिसंग्रहः । । ९० ।। किंच । भ्रकर्णयोर्मध्यप्रदेशावस्थिविशेषौ शङ्खकौ । शिरसः संबन्धीनि चत्वारि कपालानि । उरो वक्षस्तत्सप्तदशास्थिकमेित्येवं त्रयोविंशतिः । पूर्वोत्तैश्च सह षष्टयधिकं शतत्रयमित्येवं पुरुषस्यास्थिसंग्रहः कथितः ॥ ९० ॥ सविषयाणि ज्ञानेन्द्रियाण्याह गन्धरूपरसस्पर्शशब्दाश्च विषयाः स्मृताः । नासिका लोचने जिह्वा त्वक् श्रोत्रं चेन्द्रियाणि च ॥९१॥ एते गन्धाद्यो विषयाः पुरुषस्य बन्धनहेतवः । विषयशब्दस्य ‘षिञ्'बन्धने इत्यस्य धातोब्र्युत्पन्नत्वात् । एतैश्च गन्धादिभिर्बध्यत्वेन व्यवस्थितैः स्वस्व गोचरसंवेित्साधनतयानुमेयानि घ्राणादीनि पञ्चेन्द्रियाणि भवन्ति ॥ ९१ ॥ कर्मेन्द्रियाणि दर्शयितुमाह हस्तौ पायुरुपस्थं च जिह्वा पादौ च पञ्च वै । कर्मेन्द्रियाणि जानीयान्मनश्चैवोभयात्मकम् ।। ९२ ।। हस्तौ प्रसिद्धौ, पायुर्गुदं, उपस्थं रतिसंपाद्यसुखसाधनं, जिह्वा प्रसिद्धा पादौ च, एतानि हस्तादीनि पञ्च कर्मेन्द्रियाणि आदाननिहरानन्दव्याहारवि हारादिकर्मसाधनानि जानीयात् । मनोऽन्तःकरणं युगपत् ज्ञानानुत्पत्तिगम्यं तच्च बुद्धिकर्मेन्द्रियसहकारितयोभयात्मकम् ॥ ९२ ॥ प्राणायतनानि दर्शयितुमाह नाभिरोजो गुदं शुक्र शोणितं शङ्खकौ तथा । मूर्धा सकण्ठहृदयं प्राणस्यायतनानि तु ।। ९३ ।। नाभिप्रभृतीनि दश प्राणस्य स्थानानि । समाननास्रः पवनस्य सकलाङ्ग चारित्वेऽपि नाभ्यादिस्थानविशेषवाचोक्तिः प्राचुर्याभिप्राया ॥ ९३ ॥ प्राणायतनानि प्रपञ्चयितुमाह वपा वसावहननं नाभिः कृोमं यकृत्पुिहा । क्षुद्रात्रै वृककौ बस्तिः पुरीषाधानमेव च ।। ९४ ।। आमाशयोऽथ हृदयं स्थूलान्त्रं गुद एव च । । उदरं च गुदैौ कौष्ठयौ विस्तारोऽयमुदाहृतः ॥ ९५ ।। वपा प्रसिद्धा, वसा मांसस्त्रेहः, अवहननं फुप्फुसः, नाभिः प्रसिद्धा, शीहा आयुर्वेदप्रसिद्धा, तौ च मांसपिण्डाकारौ स्तः सव्यकुक्षिगतौ ॥ यकृत् कालिका, कोम १ भिप्रायेण . २ छोमा ख.