पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/३७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यतिधर्मप्रकरणम् ४] मिताक्षरासहिता । ३.४७ माँसपिण्डस्तैौ च दक्षिणकुक्षिगतौ, क्षुद्रात्रं हृत्स्थाम्रम्, वृककौ हृदयसमीपस्थो मांसपिण्डौ, बस्तिमूत्राशयः, पुरीषाधानं पुरीषाशयः, आमाशयोऽपक्रान्नस्थानम् हृदयं हृत्पुण्डरीकम् , स्थूलात्रगुदोदराणि प्रसिद्धानि, बाह्यादुदवलयादन्तर्गुदव लये द्वे, तौ च गुदौ कोष्ठयौ कोष्ठ नाभेरधःप्रदेशे भवौ । अयं च प्राणायतनस्य विस्तार उक्तः । पूर्वश्ोके तु संक्षेपः । अतएव पूर्वश्ोकोक्तानां केषांचिदिह । पाठः ॥ ९४ ॥ ९५ ॥ पुनः प्राणायतनप्रपञ्चार्थमाह कनीनिके चाक्षिकूटे शष्कुली कर्णपत्रकौ । कण शङ्खौ धुवौ दन्तवेष्टावोष्ठौ ककुन्दरे ।। ९६ ।। वङ्कणौ वृषणौ वृकौ श्लेष्मसंघातजौ स्तनौ । उपजिह्वा स्फिजौ बाहू जङ्घोरुषु च पिण्डिका ।। ९७ ।। तालूदरं बस्तिशीर्ष चिबुके गलशुण्डिके । अवटश्वमेतानि स्थानान्यत्र शरीरके ।। ९८ ।। अक्षिकर्णचतुष्कं च पद्धस्तहृदयानि च । नव च्छिद्राणि तान्येव प्राणस्यायतनानि तु ।। ९९ ।। कनीनिके अक्षितारके, अक्षिकूटे अक्षिनासिकयोः सन्धी, शष्कुली कर्णशष्कुली कर्णपत्रकौ कर्णपाल्यौ, कर्णौ प्रसिद्धौ, दन्तवेष्टौ दन्तपाल्यौ, ओष्ठौ प्रसिद्धौ , ककुन्दरे जघनकूपकैौ, वङ्गष्टौ जघनोरुसंधी, वृकौ पूर्वोक्तौ, स्तनौ च श्रेष्मसंघा तजौ, उपजिह्वा घण्टिका, स्फिजौ कटिओोथौ, बाहू प्रसिद्धेौ, जङ्घोरुषु च पिण्डिका जङ्कयोरूवाश्च पिण्डिका माँसलप्रदेशः, गलशुण्डिके हनुमूलगालयोः सन्धी, शीर्ष शिरः, अवटः शरीरे यः कश्चन निस्रो देशः कण्ठमूलकक्षादिः । अवटुरिति पाठे कृकाटेिका । तथाक्ष्णोः कनीनिकयोः प्रत्येकं श्वेतं पार्श्वद्वयमिति वर्णचतुष्टयम् । यद्धा अक्षिपुटचतुष्टयम् । शेषं प्रसिद्धम् । एवमेतानि कुत्सिते शरीरे स्थानानि । तथाक्षियुगुलं कर्णयुग्मं-नासाविवरद्वयमास्यं पायुरुपस्थमेित्येतानि पूर्वोक्तानि नव च्छिद्राणि च प्राणस्यायतनान्येव । ९६-९९ ॥ शिराः शतानि ससैव नव स्रायुशतानि च । धमनीनां शते द्वे तु पञ्च पेशीशतानि च ॥ १० ॥ किंच । शिरा नाभिसंबद्धाश्चत्वारिंशत्संख्या वातपित्तश्लेष्मवाहिन्यः सकलकले वरव्यापिन्यो नानाशाखिन्यः सत्यः सप्तशतसंख्या भवन्ति । तथाङ्गप्रत्यङ्गसंधि बन्धनाः स्रायवो नवशतानि । धमन्यो नाम नाभेरुदूताश्चतुर्विंशतिसंख्याः प्राणा देिवायुवाहिन्यः शाखाभेदेन द्विशतं भवन्ति । पेश्यः पुनर्मासलाकारा ऊरुपिण्ड काद्यङ्गप्रत्यङ्गसंधिन्यः पञ्चशतानि भवन्ति ॥ १०० ॥